________________
१८६
[काव्यानुशासनम् प्रागुपात्तस्य तु यच्छब्दस्य तच्छब्दोपादानं विना साकाङ्क्षतैव । यथात्रैव श्लोके आद्यपादयोर्विपर्यये । क्वचिदानुपात्तमपि द्वयं सामर्थ्याद्गम्यते । यथा
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥३५८॥
[मालतीमाधव १.८] अत्र स कोऽप्युत्पत्स्यते यं प्रति यत्नो मे सफलो भविष्यतीत्युभयोरपि अर्थादाक्षेपः । एवं च स्थिते तच्छब्दानुपादानेऽत्र साकाङ्कत्वम् । न चासावित्यस्य तच्छब्दार्थत्वं युक्तम् । यथा
असौ मरुच्चुम्बितचारुकेसर: प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तारामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ।।३५९॥
{हनुमन्० ६.३५] अत्र हि न तच्छब्दार्थप्रतीतिः । प्रतीतौ वा
यस्य प्रकोपशिखिना परिदीपितोऽभूदुत्फुल्लकिंशुकतरुप्रतिभो मनोभूः । योऽसौ जगत्त्रयलयस्थितिसर्गहेतुः पायात् स व: शशिकलाकलितावतंसः ॥३६०॥
१०
२०
अत्र स इति पौनरुक्त्यं स्यात् । अथ
योऽविकल्पमिदर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥३६१।।
इत्यादौ इदमदःप्रभृतयः शब्दास्तच्छब्दार्थमभिदधतीत्युच्यते । तर्हि यथादर्शनं व्यवहितानामेवोपादानं २५ युज्यते । अव्यवहितत्वे हि प्रत्युत तदितराकाङ्क्षा भवत्येव । यथा
'यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते ।।
तदाचष्टे लोकः' ॥३६२॥ (सुभाषितावलौ श्रीहर्षचौरयोः) इत्यत्र । 'सोऽयं वट: श्यामः इति प्रसिद्धस्त्वया पुरस्तादुपयाचितो यः।' (रघु. १३.५३) इत्यादौ च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org