________________
१७८
[काव्यानुशासनम् अत्र कार्तार्थ्यमिति। वाक्यस्य, यथा
- अचूचुरच्चण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदं शशाङ्कः ।।३३६।। अत्र चण्डिद्रागादीनि पदानि श्रुतिकटूनि । वक्त्राद्यौचित्ये गुणो यथा
दीधीवेवीङ्समः कश्चिद् गुणवृद्धयोरभाजनम् । विप्प्रत्ययनिभः कश्चिद् यत्र सन्निहिते न ते ॥३३७।।
अत्र वैयाकरणो वक्ता । .
यदा त्वामहमद्राक्षं पदविद्याविशारद । उपाध्यायं तदा स्मार्षं समस्प्राक्षं च संमदम ॥३३८॥
अत्र वैयाकरण: प्रतिपाद्यः ।
मातङ्गाः किमु वलिगतैः किमफलैराडम्बरैर्जम्बुका सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारैः शनैः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥३३९॥
अत्र सिंहे वाच्ये परुषाः शब्दाः ।
अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कणप्रायप्रेलितभूरिभूषणरवैराघोषयन्त्यम्बरम् । पीतच्छर्दितरक्तकर्दमघनप्राधारघोरोल्लसद्व्यालोलस्तनभारभैरववपुर्दोद्धतं धावति ॥३४०॥
[महावीरचरित १.३५] अत्र बीभत्से व्यङ्गये।
रक्ताशोककृशोदरी व नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदस्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥३४१॥
[विक्रमोर्वशीयम् ४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org