SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ १७६ १० १५ २५ ३० अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥ ३२९॥ पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ||३३०॥ [ ] एषु श्वाद्युपमानानां जातिप्रमाणगता हीनताधिकता चेत्यनुचितार्थत्वम् । निन्दायां प्रोत्साहने च न दोषः । यथा [ भामह २.५५ ] चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन । //निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः )|इति।।३३१॥ यथा वा उत्प्रेक्षायाम् Jain Education International [ विशन्तु वृष्णयः शीघ्रं रुद्रा इव महौजसः । ॥ ३३२ ॥ इति च । [ दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् । क्षुद्रेsपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव ॥ ३३३ ॥ [कुमार० १.१२] अत्राचेतनस्य · तमसस्तात्त्विकेन रूपेण दिवाकरात् त्रास एव न संभवति, कुत एव तत्प्रयोजितमद्रिपरित्राणम्। संभावितेन तु रूपेण प्रतिभासमानस्याप्यस्य न काचिदनुपपत्तिरवतरतीत्यनुचितैव २० तत्समर्थना | वाक्यस्य यथा [काव्यानुशासनम् अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्गितः स तन्वङ्गया कार्तार्थ्यं लभते कदा ||३३५ || For Private & Personal Use Only 1 कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि वनस्थास्तव विभो । जरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ||३३४|| [ ] अत्र कुविन्दादिशब्दास्तन्तुवायादिकमभिदधाना उपश्लोक्यमानस्य तिरस्कारं व्यञ्जयन्तीत्यनुचितार्थाः । परुषवर्णत्वं श्रुतिकटुत्वम् । पदस्य, यथा ] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy