________________
१६०
[काव्यानुशासनम् कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपा भवतीत्यसावप्यनन्वितस्यैव विषयः । यथा
अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती। , पश्चिमाद्यामिनीयामात् प्रसादमिव चेतना ॥२८४।।
[रघुवंश १७.१] असत्र चेतना प्रसादमाप्नोति, न पुनरापेति कालभेदः ।
प्रत्यग्रमजनविशेषविविक्तमूर्तिः
कौसुम्भरागरुचिरः स्फुरदंशुकान्ता। / विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ॥२८५।।
[रत्नावली १.२०] , अत्र लता विभ्राजते, न तु विभ्राजस इति पुरुषभेदः ।
गङ्गेव प्रवहतु ते सदैव कीर्तिः ॥२८६॥
इत्यादौ च गङ्गा प्रवहति, न तु प्रवहतु इत्यप्रवृत्तप्रवर्तनात्मनो विधेः, एवंविधस्य चान्यस्यार्थस्योप१५ मानगतस्यासंभवाद् विध्यादिभेदः ।
अथाष्टावुभयदोषानाह- . ९०) अप्रयुक्ताश्लीलासमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधेयांशविरुद्धबुद्धि
कृत्त्वान्युभयोः ॥६॥ उभयोरिति । पदस्य वाक्यस्य चेत्यर्थः । दोष इति वर्तते ।। २० कविभिरनादृतत्वादाप्रयुक्तत्वम् । तच्च लोकमात्रप्रसिद्धत्वाच्छास्त्रमात्रप्रसिद्धत्वाच्च । आद्यं यथा
...... कष्टं कथं रोदिति थूत्कृतेयम् ।।२८७।। [. देश्यं चैतत्प्रायमेव । यदाह
(२२) प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य ।
तन्मडहादि कथञ्चिन्न रूढिरिति संस्कृते रचयेत् ॥ २५ क्वचिद् गुणो यथा
[रुद्रद ६.२७] ( देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे । तद्याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं
संयच्छस्व यशः सितासितपयो भेदाद्विवेकोऽस्तु नः ॥२८८।। ३० अत्रामुग्धस्यापि मुग्धस्येव ब्राह्मणस्य वक्तृत्व स्वस्तीति गुणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org