________________
॥ तृतीयोऽध्यायः॥
अदोषौ शब्दार्थो काव्यमित्युक्तम् । तत्र दोषाणां रसापकर्षहेतुत्वं सामान्यलक्षणमुक्तम् । विशेषलक्षणमाह
८५) रसादेः स्वशब्दोक्तिः क्वचित् सञ्चारिवऊं दोषः ॥१॥ रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं दोषः । सञ्चारिणस्तु क्वचित् स्वशब्दाभिधानेऽपि न दोषः । तत्र रसस्य स्वशब्देन शृङ्गारादिना चाभिधानं यथा
शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया । रौद्रो दक्षविमर्दने च हसकृनग्नः प्रशान्तश्चिरादित्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये ॥१८३।।
[शृङ्गारतिलक १.१] स्थायिभावानां यथा
संप्रहारे प्रहरणैः प्रहराणां परस्परम् । छणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥१८४॥
अत्रोत्साहस्य स्थायिनः ।
यत्रापि स्वशब्देन निवेदितत्वमस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैव रसादीनां प्रतीतिः, स्वशब्देन सा केवलमनूद्यते । यथा 'याते द्वारवतीम्' (पृ. ६६) इत्यादि । अत्र विभावानुभावबलादुत्कण्ठा
प्रतीयत एव । सोत्कण्ठ-शब्दः केवलं सिद्धं साधयति । उत्कमित्यनेन तूक्तानुभावाकषर्ण कर्तुं २० सोत्कण्ठशब्दः प्रयुक्त इत्यनुवादोऽपि नानर्थकः । व्यभिचारिणां यथा
सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेा जह्वसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥१८५।।
__[सुभाषितावली ७८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org