SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ८८ १० [काव्यानुशासनम् ५४) क्लमादेर्निद्रा जृम्भादिकृत् ॥२९॥ क्लमश्रममदालस्यचिन्तात्याहारस्वभावादिभ्यो मनःसंमीलनं निद्रा। तां जृम्भावदनगौरवशिरोलोलननेत्रघूर्णनगात्रमर्दोच्छ्सितनिःश्वसितसन्नगात्रताक्षिनिमीलनादिभिर्वर्णयेत् । यथा निद्रानिमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥१३०॥ ___ [सुभाषितावल्याम् (३२८०) कलशकस्य] ५५) निद्रोद्भवं सुप्तमुत्स्वप्नायितादिकृत् ॥३०॥ निद्रोद्भवमित्यनेन निद्राया एव गाढावस्था सुप्तमित्याह । तदुत्स्वप्नायितोच्छ्रसितनिःश्वसितसंमोहादिना वर्णयेत् । यथा एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव विघट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः सेयँ शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥१३१॥ [सदुक्तिकर्णामृत. शुभाङ्कस्य] ५६) इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् ॥३१॥ इष्टानुस्मरणदर्शनादेविलम्बासहत्वमौत्सुक्यम् । तत् त्वरानिःश्वसितोच्छ्रसितकार्यमनःशून्यतादिगवलोकनरणरणकादिभिर्वर्णयेत् । यथा२० आलोकमार्गं सहसा व्रजन्या कयाचिदुद्वेष्टनवान्तमाल्यः । बटुं न संभावित एव तावत्करेण रुद्धोऽपि हि केशपाशः ॥१३२॥ रघु० ७.६; कुमार० ७.५७] ५७) लज्जादेरवहित्थमन्यथाकथनादिकृत् ॥३२॥ लज्जाजैम्यभयगौरवादिभ्यो भ्रूविकारमुखरागादीनामाच्छादनकारिणी चित्तवृत्तिरवहित्थमवहित्था वा । २५ न बहिःस्थं चित्तं येनेति पृषोदरादित्वात् । तदन्यथाकथनावलोंकितकथाभङ्गकृतकधैर्यादिभिर्वर्णयेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy