SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ८६ १० १५ २० २५ ५१) कार्यभङ्गाद् विषादः सहायान्वेषणमुखशोषादिकृत् ॥ २६ ॥ उपायाभावनाशाभ्यां प्रारब्धस्य कार्यस्य भङ्गान्मनः पीडा विषादः । तं सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यादिना उत्तममध्यमानां मुखशोषजिह्वासृक्कलेहननिद्राश्वसितध्यानादिभिरधमानां वर्णयेत् । यथा यथा व्यर्थं यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्गं यत्र न विश्वकर्म तनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे ॥ १२७ ॥ ५२) मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत् ॥२७॥ मद्यपानादानान्दसंमोहयो : संगमो मदः । तं स्वापस्मितगानकिंचिदाकुलबाष्पस्खलद्गतिमञ्जुभाषणरोमोद्गमादिभिरुत्तमानां हास्यगीतिस्रस्ताकुलभुजक्षेपव्याविद्धकुटिलगत्यादिभिर्मध्यमानाम्, अस्मरणघूर्णनस्खलद्गमनरुदितछर्दितसन्नकण्ठनिष्ठीवनादिभिरधमानां वर्णयेत् । तथा च - (१३) उत्तमाधममध्येषु वर्ण्यते प्रथमो मदः । यथा Jain Education International द्वितीयो मध्यनीचेषु नीचेष्वेव तृतीयकः ॥ [ [काव्यानुशासनम् सावशेषपदमुक्तमुपेक्षा प्रस्तमाल्यवसनाभरणेषु । गन्तुमुद्यतमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ १२८॥ [ उत्तरराम ३.४६ ] ५३) विरहादेर्मनस्तापो व्याधिर्मुखशोषादिकृत् ||२८|| विरहाभिलाषादिभ्यो मनस्तापो व्याधिहेतुत्वाद्वयाधिः । तं मुखशोषम्रस्ताङ्गतागात्रधिक्षेपादिभिर्वर्णयेत् । मनोरोगस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्कं ज्वर इव गरीयानित इतो न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ॥ १२९ ॥ For Private & Personal Use Only ] [शिशुपाल. १०.१६] [मालतीमाधव २.१] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy