________________
७८
[काव्यानुशासनम् __ ये पुनरमी धृत्यादयश्चित्तवृत्तिविशेषास्ते समुचितविभावाभावाजन्ममध्ये न भवन्त्येवेति व्यभिचारिणः। तथा हि रसायनमुपयुक्तवतो ग्लान्यालस्यश्रमप्रभृतयो न भवन्त्येव। यस्यापि वा भवन्ति विभावबलात्तस्यापि हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां नावश्यमनुबध्नन्ति । रत्यादयस्तु संपादितस्वकर्तव्यतया प्रलीनकल्पा अपि संस्कातशेषतां नातिवर्तन्ते। वस्त्वन्तरविषयस्य रत्यादेरखण्डनात् । यदाह पतञ्जलि:(१२) “न हि चैत्र एकस्यां स्त्रियां रक्त इत्यन्यासु विरक्तः ।"
[व्यासभास्य योगसूत्र २.४ (पृ. ६०)] इत्यादि।
तस्मात्स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी स्वात्मानमुदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमानाः स्थायिनं विचित्रयन्तः प्रतिभासन्त इति व्यभिचारिण उच्यन्ते । तथा हि-ग्लानोऽयमित्युक्ते १०
कुत इति हेतुप्रश्नेनाऽस्थायितास्य सूच्यते । न तु राम उत्साहशक्तिमानित्यत्र हेतुप्रश्नमाहुः । अत एव विभावास्तत्रोद्बोधकाः सन्तः स्वरूपोपरञ्जकत्वं विदधाना रत्युत्साहादेरुचितानुचितत्वमात्रमावहन्ति, न तु तदभावे ते सर्वथैव निरुपाख्याः । वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु स्वविभावाभावे नामापि नास्तीति ।
तत्र परस्परास्थाबन्धात्मिका रतिः । चेतसो विकासो हासः । वैधुर्यं शोकः । तेक्ष्ण्यप्रबोधः क्रोधः । १५ संरम्भः स्थेयानुत्साहः । वैक्लव्यं भयम् । संकोचो जुगुप्सा । विस्तारो विस्मयः । तृष्णाक्षयः शमः ।
रसलक्षण एव स्थायिस्वरूपे निरूपिते पुनर्निर्देशः क्वचिदेषां व्यभिचारित्वख्यापनार्थः । तथा हि विभावभूयिष्ठत्व एषां स्थायित्वम्, अल्पविभावत्वे तु व्यभिचारित्वम् । यथा रावणादावन्योन्यानुरागाभावादतिर्व्यभिचारिणी। तथा गुरौ प्रियतमे परिजने च यथायोगं वीरशृङ्गारादौ रोषो व्यभिचार्येव। एवं भावान्तरेषु वाच्यम्। शमस्य तु यंद्यपि क्वचिदप्रधान्यम्, तथापि न व्यभिचारित्वं सर्वत्र प्रकृतित्वेन स्थायितमत्वात्।
व्यभिचारिणो ब्रूते४५) धृतिस्मृतिमतिव्रीडाजाड्यविषादमदव्याधिनिद्रासुप्तौत्सुक्यावहित्थशङ्काचाप
लालस्यहर्षगौग्यप्रबोधग्लानिदैन्यश्रमोन्मादमोहचिन्तामर्षत्रासापस्मारनिर्वेदावेगवितर्कासूयामृतयः स्थित्युदयप्रशमसन्धिशबलत्वधर्माणस्त्रयस्त्रिंशद्वयभिचारिणः ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org