________________
७६
[काव्यानुशासनम् शान्तमाह४३) वैराग्यादिविभावो यमाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः ॥१८॥
वैराग्यसंसारभीरुतातत्त्वज्ञानवीतरागपरिशीलनपरमेश्वरानुग्रहादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृतिनिर्वेदमत्यादिव्यभिचारी तृष्णाक्षयरूपः शमः स्थायिभावश्चर्वणां प्राप्तः शान्तो ५ रसः । यथा
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । - किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गकण्डूं विनेतुम् ॥११६बा।
- [भर्तृहरि : वैराग्यशतक १८] न चास्य विषयजुगुप्सारूपत्वाद् बीभत्सेऽन्तर्भावो युक्तः । जुगुप्सा ह्यस्य व्यभिचारिणी भवति न तु स्थायितामेति । पर्यन्तनिर्वाहे तस्या मूलत एवोच्छेदात् । न च धर्मवीरे । तस्याभिमानमयत्वेन व्यवस्थानात् । अस्य चाहङ्कारप्रशमैकरूपत्वात् । तथापि तयोरेकत्वपरिकल्पने वीररौद्रयोरपि तथाप्रसङ्गः । धर्मवीरादीनां चित्तवृत्तिविशेषाणां सर्वाकारमहङ्काररहितत्वे शान्तरसप्रभेदत्वम्, इतरथा तु वीररसप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः । तदेवं परस्परविविक्ता नवापि रसाः ।
एषां क्रमेण स्थायिभावान् संगृह्णाति४४) रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावाः ॥१९॥
भावयन्ति चित्तवृत्तय एवालौकिकवाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानं लौकिकदशायामनास्वाद्यमप्यास्वाद्यं कुर्वन्ति, यद्वा भावयन्ति व्याप्नुवन्ति सामाजिकानां मन इति भावाः,-स्थायिनो २० व्यभिचारिणश्च । तत्र स्थायित्वमेतावतामेव ।
जात एव हि जन्तुरियतीभिः संविद्भिः परीतो भवति । तथा हि दुःखविद्वेषी सुखास्वादनलालसः सर्वो रिम्सया व्याप्तः, स्वात्मन्युत्कर्षमानितया परमुपहसति, उत्कर्षापायशङ्कया शोचति, अपायं प्रति क्रुध्यति, अपायहेतुपरिहारे समुत्सहते, विनिपाताद् बिभेति, किंचिदयुक्ततयाभिमन्यमानो जुगुप्सते, तत्तत्स्वपर
कर्तव्यवैचित्र्यदर्शनाद्विस्मयते । किंचिजिहासुस्तत्र वैराग्याच्छमं भजते । न ह्येतच्चित्तवृत्तिवासनाशून्यः प्राणी २५ भवति । केवलं कस्यचित्काचिदधिका चित्तवृत्तिः काचिदूना। कस्यदिदुचितविषयनियन्त्रिता कस्यचिदन्यथा ।
तत्काचिदेव पुरुषार्थोपयोगिनीत्युपदेश्या । तद्विभागकृतश्चोत्तमप्रकृत्यादिव्यवहारः ।
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org