SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ७२ यथा [काव्यानुशासनम् चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धनशोणितशोणपाणिरुत्तंसयिष्यति कचाँस्तव देवि भीमः ॥११२॥ _ [वेणी० १.२१] वीरमाह३९) नयादिविभाव: स्थैर्याद्यनुभावो धृत्यादिव्यभिचार्युत्साहो धर्मदानयुद्धभेदो वीरः ॥१४॥ प्रतिनायकवर्तिनयविनयासंमोहाध्यवसायबलशक्तिप्रतापप्रभावविक्रमाधिक्षेपादिविभावः स्थैर्यधैर्यशौर्य१० गाम्भीर्यत्यागवैशारद्याद्यनुभावो धृतिस्मृत्यौग्यगर्वामर्षमत्यावेगहर्षादिव्यभिचारी उत्साहः स्थायिभावश्चर्वणीयतां गतो धर्मदानयुद्धभेदात्रिधा वीरः । यथा अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः । v अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥११३।। काव्यादर्श २.२८४] तत्र धर्मवीरो नागानन्दे जीमूतवाहनस्य । दानवीरः परशुरामबलिप्रभृतीनाम् । युद्धवीरो वीरचरिते रामस्य । इह चापत्पङ्कनिमग्नतां स्वल्पसंतोषं मिथ्याज्ञानं चापास्य यस्तत्त्वनिश्चयरूपोऽसंमोहाध्यवसायः स एव प्रधानतयोत्साहहेतुः । रौद्रे तु ममताप्राधान्यादशास्त्रितानुचितयुद्धाद्यपीति मोहविस्मयप्राधान्यमिति विवेकः । भयानकमाह४०) विकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं शङ्कादिव्यभिचारि भयं __ भयानकः॥१५॥ पिशाचादिविकृतस्वरश्रवणतदवलोकनस्वजनवधबन्धादिदर्शनश्रवणशून्यगृहारण्यगमनादिविभावं करकम्पचलदृष्टिनिरीक्षणहृदयपादस्पन्दशुष्कौष्ठकण्ठत्वमुखवैवर्ण्यस्वरभेदाद्यनुभावं शङ्कापस्मारमरणत्रासचापलावेगदैन्यमोहादिव्यभिचारि स्त्रीनीचप्रकृतीनां स्वाभाविकमुत्तमानां कृतकं भयं स्थायिभावश्चर्वणीयत्वमागतं भयानकोरसः । यथा ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्द्धन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । शष्पैर वलीद्वैः श्रमविततमुखभ्रंशिभिः कीर्णवत्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्त्या प्रयाति ॥११४॥ [शाकुन्तल १.७] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy