________________
७०
[काव्यानुशासनम्
१०
तत्रात्मस्थो हासो यथा
पाणौ कङ्कणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् । / गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे गण्डोल्लासविभावितः पशुपतेर्हास्योद्गमः पातु वः ॥१०९।।
[शृङ्गारतिलक ३.९] परस्थो यथा-.
कनककलशस्वच्छे राधापयोधरमण्डले
नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बितां । / असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥११०॥
[कविन्द्रवचन: ४९, वैद्दोकस्य] करुणमाह
३७) इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखमय व्यभिचारी शोकः १५ करुणः ॥१२॥
___ इष्टवियोगानिष्टसंप्रयोगविभावो दैवोपालम्भनिःश्वासतानवमुखशोषणस्वरभेदाश्रुपातवैवर्ण्यप्रलयस्तम्भकम्पभूलुठनगात्रसंसाक्रन्दाद्यनुभावो निर्वेदग्लानिचिन्तौत्सुक्यमोहश्रमत्रासविषाददैन्यव्याधिजडतोन्मादापस्मारालस्यमरणप्रभृतिदुःखमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकः स्थायिभावश्चर्वणीयतां गतः करुणो रसः । यथा- अयि जीवितनाथ जीवसि ॥११॥ ६. ... .
___ [कुमार० ४.३] इत्यादि रतिप्रलापेषु । रौद्रमाह
३८) दारापहारादिविभावो नयनरागाद्यनुभाव औग्यादि व्यभिचारी क्रोधोरौद्रः॥१३॥ २५ दारापहारदेशजात्यभिजनविद्याकर्मनिन्दासत्यवचनस्वभृत्याधिक्षेपोपहासवाक्पारुष्यद्रोहमात्सर्यादिविभावो
नयनरागभृकुटीकरणदन्तौष्ठपीडनगण्डस्फुरणहस्ताग्रनिष्पेषताडनपाटनपीडनप्रहरणाहरणशस्त्रसंपातरुधिराकर्षणच्छेद व औग्यावेगोत्साहविबोधामर्षचापलादिव्यभिचारी क्रोधः स्थायिभावश्चर्वणीयतां प्राप्तो रौद्रो रसः।
२०
प्रलापषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org