________________
[काव्यानुशासनम् अथ प्रेक्षावत्प्रवृत्त्यङ्गं प्रयोजनं वक्तुं तत्प्रस्तावनामाह
शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः।
तासामिदानीं काव्यत्वं यथावदनुशिष्यते ॥२॥ शब्दानुशासने सिद्धहेमचन्द्राभिधाने विवेचिताः –असाध्वीभ्यो वाग्भ्यः पृथक्कृताः । इदानीं शब्दानुशासनानन्तरं तासां वाचां काव्यत्वं काव्यीभावो यथावत्तात्विकेन रूपेणानुशिष्यते । वाचां हि साधुत्वे निश्चिते सुकरः काव्योपदेशः । अनेन शब्दानुशासनकाव्यानुशासनयोरेककर्तृकत्वं चाह । अत एव हि प्रायोगिकमन्यैरिव नारप्स्यते, शब्दानुशासनेनैव चरितार्थत्वात् । शास्त्रप्रयोजनमुक्त्वा अभिधेयप्रयोजनमाह
काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च ॥३॥ लोकोत्तरं कविकर्म काव्यम् । यदाह
(३) प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता।
तदनुप्राणनाजीवपूर्णनानिपुणः कविः ।।
तस्य कर्म स्मृतं काव्यम् ॥ [काव्यकौतुके] सद्योरसास्वादजन्मा निरस्तवेद्यान्तरा ब्रह्मास्वादसदृशी प्रीतिरानन्दः । इदं सर्वप्रयोजनोपनिषद्भूतं १५ कविसहृदययोः काव्यप्रयोजनम् । यशस्तु कवेरेव । यत इयति संसारे चिरातीता अप्यद्ययावत्
कालिदासादयः सहृदयैः स्तूयन्ते कवयः । प्रभुतुल्येभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यो मित्रसंमितेभ्योऽर्थप्रधानेभ्यः पुराणप्रकरणादिभ्यश्च शब्दार्थयोर्गुणभावे रसप्राधान्ये च विलक्षणं काव्यं कान्तेव सरसतापादनेन संमुखीकृत्य रामादिवत् वर्तितव्यं न रावणादिवदित्युपदिशतीति सहृदयानां प्रयोजनम् । तथा चोक्तं हृदयदर्पणे।
(४) शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।
अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः ॥
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ॥इति। [भट्टनायक] धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं प्रकारान्तरेणापीति न काव्यप्रयोजनतयास्माभिरुक्तम् । २५ प्रयोजनमुक्त्वा काव्यस्य कारणमाह
प्रतिभास्य हेतुः ॥४॥
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org