SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहेमचन्द्रविरचितं ॥ काव्यानुशासनम् ॥ ॥ प्रथमोऽध्यायः॥ प्रणम्य परमात्मानं निजं काव्यानुशासनम् । आचार्यहेमचन्द्रेण विद्वत्प्रीत्यै प्रतन्यते ॥ ग्रन्थारम्भे शिष्टसमयपरिपालनाय शास्त्रकारः समुचितेष्टदेवतां प्रणिधत्ते अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम्। सर्वभाषापरिणतां जैनी वाचमुपास्महे ॥१॥ रागादिजेतारो जिनास्तेषामियं जैनी जिनोपज्ञा । अनेन कारणशुद्ध्योपादेयतामाह । उच्यत इति वाक् वर्णपदवाक्यादिभावेन भाषाद्रव्यपरिणतिः । तामुपास्महे । उपासनं योगप्रणिधानम् । अकृत्रिमस्वादून्यनाहार्य-माधुर्याणि पदानि नामिकादीनि यस्यां सा । तथा स्वच्छस्वादुमृदुप्रभृतयो हि गुणमात्रवचना अपि दृश्यन्ते । अथवा अकृत्रिमाण्यसंस्कृतान्यत एव स्वादूनि मन्दधियामपि पेशलानि १० पदानि यस्यामिति विग्रहः । उक्तं हि (१) बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ।। तदेतद्गीतादिसाधारणमिति विशिनष्टि । परमार्थो निःश्रेयसं, तदभिधानशीला परमार्थाभिधायिनी १५ द्रव्याद्यनुयोगानामपि पारम्पर्येण निःश्रेयसप्रयोजनत्वात् । तथा सर्वेषां सुरनरतिरश्चां विचित्रासु भाषासु परिणतां तन्मयतां गतां सर्वभाषापरिणताम् । एकरूपापि हि भगवतोऽर्धमागधीभाषा वारिदविमुक्तवारिवदाश्रयानुरूपतया परिणमति । यदाह (२) देवा दैवीं नरा नारी शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरश्ची मेनिरे भगवद्गिरम् ।। २० न ह्येवंविधं भुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यः कर्तुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy