________________
248
Traverses on less trodden path... चतुकोटिपि निमुक्तं तत्त्वं' इति वदतां माध्यमिकानां बौद्धानां सिद्वान्तं;98 'चित्तं विज्ञानसामस्त्यमयान्तरं, " 'मृषा जगद् दृष्टमपि स्फुटाभं', इत्यादिना प्रत्यक्षेण दृष्टमपि सकल स्थावरजङ्गमात्मकं जगत् मिथ्या 'यदन्नईयरूपं तद् बहिस्वभासते',88 इति च प्रतिपादयतां केषाञ्चित् विज्ञानवादिनां मतं. 'साकारतासिद्धिमयाखिलेव,7 इत्यादिना च बाह्यानुमेयवादिना साकारविज्ञानवादिनां सौत्रान्तिकानां सिद्धान्त'; 'केनापि बोधिसत्वेन जातं सत्त्वेन हेतुना । यद्वेद मर्मभेदाय जगहे जगद स्थरम् ॥98 इत्यादिना सत्त्वरूपेण रिङ्गेन यत्सत् तत्क्षणिकं, यथा घटः इति जगदस्थिरतां क्षणिकताञ्च प्रतिपादयतां क्षणभङ्गवादिबौद्धानां मतमुपन्यसता कविना प्रादर्शि विविधबौद्धदर्शन पाण्डित्यमपि ।
श्रीहर्षस्य समये चार्वाकमतस्य प्रचाराधिक्यमासीदिति नैषधकाव्यात ज्ञातुं शक्यते । चार्वाकास्तु के चन प्रत्यक्षमेव के प्रमाणमङ्गीकुर्वाणाः देहातिरिक्तमात्मास्तित्वं, परलोकपुण्यपापादिकं, ईश्वरास्तित्वं मोक्षावस्थां चापहनुवानाः कामाचरणं मुक्तकण्ठेनानुमन्यन्तेति सुविदितमेव सर्वदर्शनविदाम् । चार्वाकमतमिदं सविस्तरमुपन्यस्य100 सप्तदशे सर्गे तत्खण्डनमपि करोति पण्डितप्रकाण्डोऽयं कविः ।101 सप्तदशे सर्गेऽस्मिन्नेव सकलशास्त्रपाण्डित्यमाविष्करोति कविरयमात्मनः ।
एवमेव कविरयं तत्र-तत्र बहुषु स्थलेषु वेदवेदाङ्गादीनां प्रावीण्यमाविष्करोति । 'भूयतां भगवतः श्रुतिसारैरद्य वाग्मिरघमर्षणऋगभिः108 धय्याधिगधैर्यधारिण:108' 'बहिर्मुखानाम नलाननत्वं'104, द्वेष्याकोर्तिकलिन्दशैलसुनया नद्यास्य यद्दोर्द्वयोंकीतिश्रेणि. मयी समागममगद्गङ्गा रणप्राङ्गणे 05', इत्यादिवचनैः श्रुतिज्ञान; स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी विभतु या। स्वरभेदमुपैतु या कथं कलितानल्पमुखा न वा' ।1०8 इत्यादिना शिक्षाशास्रस्य वर्णस्वरादिविषयकान' सकलसिद्धन्तान सङ्केतरूपेण प्रदर्शयति । 93 बोधिचर्यावतारपत्रिका, पृ 356. 94. नै.-X-87 95. ने.-XXII-24. 97. ब्रह्मसूत्रशांकरभाष्यम्-11-11-28 98. न.-XVII-38. 99. बाई-पत्यसूत्रम्--25. 100. .-xv11-37-83. 101. नै--84-101. 102. ने.-V--18: ऋग्वेद ..x-190 1-3-8 अधमर्षण सूक्तम् । 103. नै-II-56; ऋग्वेद-III-XXVII-1; शतपथब्राह्मण -1-VI-I-37. 104. नै.-X-21; अग्निर्मुख प्रथमो देवतानाम्-ऐतरेयब्राह्मण -I-4. 105. नै.-XII-12; 'सिता सिते सरिते यत्र सगते(थे) तबलुतासो दिवमुत्पतन्ति । ये वै
तन्वं विसृजन्ति धीरास्ते जनासौ अमृतत्वं भजन्ते । ऋग्वेद, खिलसूक्त -1. 106. नै.-11-98. 107. शिक्षाशास्रम्-3-49.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org