________________
॥ अर्ह ॥ पण्डितकविश्रीधनपालविरचिता गद्यकथा
तिलकमञ्जरी
॥ ॐ नमः सर्वज्ञाय ।। स वः पातु जिनः कृत्स्नमीक्षते यः प्रतिक्षणम् । रूपैरनन्तरेकैकजन्तोाप्तं जगत्त्रयम् ॥ १ ॥ प्राज्यप्रभावः प्रभवो धर्मस्याऽरतरजस्तमाः ।
ददतां निवृतात्मा न आद्योऽन्येऽपि मुदं जिनाः ॥ २ ॥ दिशतु विरतिलाभानन्तरं पार्श्वसपन्नमिविनमिकृपाणोत्सङ्ग श्याङ्गलक्ष्मीः ।
त्रिजगदपगतापत् कर्तुमात्तान्यरूपद्वय इव भगवान् वः स्वं पदं नाभिसूनुः ॥ ३ ।। ध्वानेनामृतवर्षिणा श्रवणयोरायोजनं भ्राम्यता,
_भिन्दाना युगपद् विभिन्न विषयं मोहं हृदि प्राणिनाम् । आदो धर्मकथाविधौ जिनपतेराद्यस्य वाणी नृणां,
- 10 वृन्दैरुद्यदपूर्वविस्मयरसैराकर्णिता पातु वः ॥ ४ ॥ अव्याज्जगन्ति पुरुषोत्तमनाभिसूतेदेवस्य वक्त्रकमलोदरमावसन्त्याः ।
धौतेव दन्तकिरणप्रकरण मूर्तिदेव्या गिरामधिपतेः शरदिन्दुगौरी ॥ ५ ॥ .. रक्षन्तु स्खलितोपसर्गगलितप्रौढप्रतिज्ञाविधौ
___ याति स्वाश्रयमर्जिताहसि सुरे निःश्वस्य संचारिताः । 15 आजानुक्षितिमध्यमग्नवपुषश्चक्राभिघातव्यथा
मूर्ध्वान्ते करुणाभगश्चितपुटा वीरस्य वो दृष्टयः ॥ ६ ॥ प्रबन्धानामनध्यायः सा वाग् जयति शुद्धया ।
यया प्रतिपदेवेन्दुः कविः क्षीणोऽपि जीवति ।। ७ ।। वन्द्यास्ते कवयः काव्यपरमार्थविशारदाः ।।
विचारयन्ति ये दोषान् गुणांश्च गतमत्सराः ॥ ८ ॥ वार्योऽनार्यः स निदोपे यः काव्याध्वनि सर्पताम् ।
अग्रगामितया कुर्वन् विघ्नमायाति सर्पताम् ॥ ९ । शेपेसेवाविशेष ये न जानन्ति द्विजिह्वताम् ।
यान्तो हीनकुलाः किं ते न लज्जन्ते मनीषिणाम् ।। १० । 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org