SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २८२ शान्त्याचार्य-शानकलश-विरचितम् शा०टि एकत्र हृष्टशाकिनीगवेष्यमाणनृपतिशिरोऽस्थिमद्यपात्रः, अन्यत्र हृष्टचामुण्डान्वि' प्यमाणदिक्पाल कपालचषकः । प्रचलितरसाकुलभूभृच्चक्रवालकृततुमुल: एकत्र प्रचलितवसुन्धराकुलगिरिचक्रविहिताकुशलशब्दः, अन्यत्र प्रचलितवीररसाकुलनृपचक्रकृताकुलारवः । प्रसृत रभसोत्ताल*गजदानवारि: एकत्र प्रसृत प्रवृत्त', रभसोत्तालगजानाम् उत्सुकोद्भटक रिणां', दानवारि मदजलं, यत्र स तथोक्तः; अन्यत्र प्रसृत उत्तालगजवद् दानवारिः शङ्करो यत्र स तथोक्तः । आतंत्रिदशदारिकान्विष्यमाणरमणसार्थः एकत्र आर्ताभिस्तिमृभिर्दशभिश्च, दारिकाभिः अङ्गनाभिः, अन्विष्यमाणो भर्तृसङ्घातो यत्र स तथा; अन्यत्र आर्तदेवपुत्रिकागवेष्यमाणभर्तृसङ्घातः । निपीतेत्यादि । शिवाफेत्क्रारडामरः एकत्र चामुण्डाफेत्कारेण डामरः रौद्रः, अन्यत्र कोष्ट्री० । कीलालित: सरुधिरः । स्फुर्जः स्फुरणम् । खण्डपरशुः शङ्करः । कालाग्निः पातालरुद्रः । बृहित 'गजगर्जितम् । सूतः सारथिः । पर्यस्थतां 1°पतताम् । प्रतिरसित प्रतिशम्दः । लासको नर्तकः । एणाङ्कः चन्द्रः । उदन्या तृट् । कौणपाः राक्षसाः । ६३) क्रयादः राक्षसाः । परेताः पिशाचाः । ६४) आस्वादितगलामिषा विसारिणीः-मत्स्याः कीदृशाः ? आस्वादित भक्षित, गलामिष बडिसीभांस यैस्ते तथोक्ताः, अन्यत्र प्रसरणशीलास्तथा आवादितग्रीवामांसाः । लचितदिशो दूराध्वगा:-दूरपथिकाः कीदृशाः ? लच्चितदिशः अतिक्रान्ताशा भवन्ति, सायका अपि दूरमार्गगन्तारो लधितदिशश्च । राजकार्योपयोगिनस्तीक्ष्णाः एकत्र तीक्ष्णा घातकाः, ते नृपार्थसाधकाः; अन्यत्र निशाताः । परितोषितसुराङ्गनाः सुपर्वाण: एकत्र देवाः, अन्यत्र शोभनप्रन्थिद्वयमध्याः; उभयेऽपि हर्षितदेवयोषाः14 । महाजवा वाजिनः एकत्र वाजिनः अश्वाः, अन्यत्र सपिच्छाः; उभयेऽपि महावेगाः । चापलतोषिताः क्षितिपालदारका:-एकत्र राजपुत्राः कीदृशाः15 १ चापलतोषिताः चपलत्व हर्षिताः; अन्यत्र नृपविदारकाः, धनुलतास्थिताः । ता०टि० ६३) परेत० प्रेत० । सादिषु अश्वारोहकेषु । मृगयुः व्याधः। उत्खात० उद्गूर्ण० । परिक्षेपं परिवेष्टनम् । पुनरुक्त० वारंवारम् । अभिमन्युः अर्जुनपुत्रः ॥ ६४) मुक्ताः सायकाः प्रसस्रुरिति सम्बन्धः । गल: गाली, कन्धरा च । विसारिण: (1) Boन्वे०. (2) B ०दिव्पालजलयपाल०. (3) S ०ताकुल०. (4) BCS drop the portion from गजदान• etc upto ० सोत्ताल० (5) S drops द०. (6) S drops ०व०. BC drop ०वद्. (7) BCS तथा. (8) BCS drop ०फत्कारेण डा. (9) BCS गल०. (10) BCS drop पत०. (11) B1 तृषा. (12)S साएका; B' drops सायका अपि. (13) BCS तीक्ष्णाघातनृपार्थसाधकाः. (14) BCS योष्याः. (15) BCS drop the portion from कीदृशाः etc, upto प्राप्तनिर्वाणाः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy