SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २७६ शान्न्याचार्य-शानकलश-विरचितम् . शा०टि. २५) सात्त्विकै: असत्त्वभ्रंशेन चरन्तीति सात्त्विकाः । कृतक्षणेन विहितव्यापारेण । श्रवणेन कर्णेन । सदशः 'लोहकारोपकरणम् । २६) पुण्डरीके सितपझे । अस्थूललधुनापि यद् अस्थूल कृश, लघु चाविस्तीर्ण, तत्कथ पीवरम् उरु च १ अन्यत्र पीवरावुरू बृहज्जङ्घ यत्र तत्तयोक्त, तेन पीवरोरुणा । अतिसूक्ष्मदृष्टिलक्ष्येण एकत्र अतिनिपुणज्ञानगम्येन, अन्यत्र अतिसूक्ष्मनेत्रदर्शनोपलभ्येन । आभोगेन विस्तारेण । संक्षोभितसुरासुरलोक त्रासितदेवदानवजन', 'कृतसरागदेवदानव च । विनिद्रकोकनदविनिवेशितकरी विकसितपद्मारोपितहस्ताम् , अन्यत्र विगतनिद्रचक्रवाकनिक्षिप्तकिरणाम्' । स्फुरतारनीलाङ्गदाम् एकत्र चलतारनीलाङ्गदाभिधानवानरत्रयाम् , अन्यत्र दीप्यमानोज्जवलमरकतकेयूराम् । गृहीतसर्वाङ्गीणप्रसाधनामपि या आत्तसकलदेहसम्बन्धिमण्डना सा कथम् एकाङ्गकल्पिताङ्गरागा ? अन्यत्र चन्दनकृतविलेपनाम् । धीरतरवारिवासिनीमपि या गम्भीरतरजलवासिनी सा कथं प्रकटितपृथुप्रतापा 'प्रकाशितोरुप्रकृष्टतापा ? [ अन्यत्र प्रतापः प्रभावः, प्रकाशितविस्तीर्णप्रभावा, ] ताम् । २७) निर्वाण सुखम् । अभ्रभू ऐरावणभार्या । चन्द्रशाला शिरोगृहम् । सप्रश्रय सविनयम् । भुजङ्गकुलसङ्गदूषितमपि एकत्र भुजङ्गः षिड्गः1 1 [ cf. त्रिकाण्डशेषः III.6 : षिड्गो व्यलीकः षट्प्रज्ञः etc; also cf. अभिधानचिन्तामणिः II. 245 षिड्गः पल्लवको विटः ], अन्यत्र सर्पः । प्राकृतजनगृहीतदण्डमपि एकत्र दण्डः करः, अन्यत्र यष्टिः । असकृदासादितकलङ्कः एकत्र कलङ्को मलः, अन्यत्र परिवारः । तियङ्मलोऽपि अशुचिरपि, अन्यत्र स्वरूपकथनम् । ता०टि० २७) परिस्पन्दौ० चलनौ । तरङ्गायत० [तरङ्ग]वत् [आयत०] । विग्रह० देह० । निःशेषित० अवसित। निःशेषितप्रमादनिर्मलेन कर्मधारयः, ततः प्रमादेन निर्मलः । किमपि अतिशयेन । शुद्धान्त० अन्तःपुर० । वितान० उल्लोच० । मुग्ध० हृद्य० । वेणुः वंशः । विषुधसद्म० [विबुधसद्म-]नि । चन्द्रशाला शिरोगृहम् । कलङ्कः किट्टः, यदने-(कार्थः) (1) BCS सत्त्वभ्रंसेन; B1 •भ्रंसेन. (2) B1 repeats लोह०. (3) BT drops अति०. (4) BT • सादर० for • सागर०. (4) S विकसिद्मा०. (6) B1 गतनिद्र०. (7) B1 किराम्, (8) BCS drop एकत्र...नीलाङ्ग०. (१) प्रकासितो.. (10) Bt drops ताम्. (11) B1 षिङ्गः. (12) C drops ०म०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy