SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २६७ तिलकमञ्जरीटिप्पनकद्वयम् शा०टि० महाप्रभावयुक्तः । गरः बिषम् , सगरः चक्रवर्ती । य शत्रुघ्नः स कथं विश्रुतकीर्ति: विगतश्रुतकीर्त्यभिधानभार्यः १, अन्यत्र अरिहन्ता प्रख्यातकीर्तिश्च । शेषो नागराजः, न निषेधे; अन्यत्र अशेषाः सर्वाः । आश्रमाः वनस्थानानि, अन्यत्र ब्रह्मचर्यादयः । __ ग्राहो जलचरः । सन्निपातो ज्वरविशेषः । यो गिरौ पर्वते, आप्तप्रतिष्ठः, प्राप्तावस्थितिः, स कथम् अवनेचरतः अविद्यमानवनेचरभावः १ अन्यत्र 'गिरा वाचा, अवाप्तप्रतिष्ठः, अवने Jच रक्षणे च, रतः । यः श्रितविशुद्धसाधुसमाचारः स कथम् “उा बृहत्या, भुजङ्गतया राजितः ? अन्यत्र उल् पृथिव्या भुज' बाहुं, गतथा प्राप्तया, [भ्राजितः] शोभितः । यस्थ मेघवाहनस्य, विश्वनि सर्वाणि, शात्रवाणि शत्रुसमूहान् , [कृपाण:] खड्गः असिः भैरवः रौद्रः, संजहार संहतवान्; अन्यत्र विश्वानि जगन्ति, महाभैरवः 'शङ्करः, संजहार, केषु ? आजिमूर्धसु सङ्ग्रामशिरस्सु, अन्यत्र प्रलयकालेषु, [यशोऽट्टहासः । यश एवाट्टहासः, अन्यत्र यशोवदट्टहासः; तथा अङ्गीकृतगजेन्द्रकृतिभीषणः स्वीकृतकरीशच्छेदनभीषणः, अन्यत्र स्वीकृतगजासुरचर्मरौद्रःः तथा प्रकटितानेकनरकपाल: प्रकाशितबहुपुरुषशिरोऽस्थिः, अन्यत्र प्रकाशितनानानिरयरक्षः । महीभृत: गिरयो राजानश्च । आयासिता प्रयत्नीकृता निष्पन्ना1० वा । धर्मस्थेयाः धर्माधिकरणाधिकारिणः1 1। अश्ववृन्दरहिता अपि ये कर्कुरवृन्दसहितास्ते कथं मुक्तमण्डलाः त्यक्तश्वानः १ अन्यत्र घोटकसङ्घातशून्याः तथा त्यक्तदेशाः । ये समस्तानेकपदा कृतसमासबहुषदाः ते कथम् ओजस्वितां समासभूयस्त्य' तत्यजुः12 ? [ अन्यत्र सम्यग्विध्वंसितबहुस्थाना, तथा स्वबलं मुमुचुः । ] अस्वरवर्णा अपि ये स्वररहितवर्णास्ते कथं पर व्यञ्जनं न [अशिश्रियन्त] श्रितवन्तः १ अन्यत्र शब्दश्नाधारहिताः13 नव्य नूतनम् अन्यान्य जनम् । सोपसर्गत्व, प्रादियुक्तत्व, न लोकानां देवाद्युपद्रवः । पीडनं मर्दन' 4 पीडा च । दिवि आकाशे। 5 अग्रहण दिव्यग्रहण शुद्धिकरण' च । विग्रहः समासबाक्य सङ्ग्रामश्च । गलेन __ता टि० आयासितमति आयासिता खेदनीता मतियन । परिकर एव । नीतिः न्यायः । धर्मस्थेयाः धर्माधिकरणम् । विभवः ऐश्वर्यम् । अश्ववृन्दरहिता श्ववृन्दयुक्ता । मण्डलः श्वानः समस्तानेकपदा नाशितान्यनेकानि पदानि येषु । वर्णा श्लाघा । शाखा कठादि० । असद्व्यवहार अविद्यमानस्य व्यवहारः । वैशेषिकमते शैवमते । फणाभित्तयः फणा एव (भित्तयः) । करकोपल ___(1) BSC drop र in सगरः. (2) BSC गिरि. (3) B1 drops च. (4) BSC उर्वा. (5) S शास्त्रावाणि. (6) B BISCS संहृतवान्. (7) S संकरः. (8) S प्रकासित०. (9) S प्रकासित०. (10) : SC निष्णा. (11) B1 धर्मकरणाधिकारिणः. (12) BSC तत्यक्षुः. (13) BC adds नव्यं जनं न श्रितबन्त after शब्दश्लाधारहिताः. (14) BSC drop मर्दनं. (15) BSC drop ‘वि आ. in दिवि आकाशे. (16) BSC drop शुद्धिकरणं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy