________________
२६६
शान्त्याचार्य-ज्ञानकलश-विरचितम्
शा०टि० विरोघे खिन्नया खेद गतया, अन्यत्र तत्परया । या परमाणुसूक्ष्मा सा कथं (क्रोडीकृतत्रिलोका) व्याप्तत्रिलोका ?, अन्यत्र विषयीकृतत्रिभुवना । या व्यक्तविवेका स्पष्टपृथग्भावा सा कथम् अतिनिबिडा अतिघना १; अन्यत्र विवेको विचारः । या प्रसन्ना मदिरा, सा सन्निहितमत्तता, अन्यत्र प्रसन्नया निर्मलया, मदो दर्पः । एकत्र दण्डनीतिः विद्या, सैव प्रतीहारी; अन्यत्र सन्निहितदण्डगमना या प्रतीहारी ।
मानसं चित्तं सर'श्च । योऽसङ्ख्यगुणशाली असङ्ख्यातवरकशोभी [cf. Hemacandra's देशीनाममाला V. 35 दवरो-तन्तुः-दोरो (Guj.) thread] स कथ सप्ततन्तुख्यात: सप्तगुणप्रसिद्धः ? अन्यत्र गुणाः शौर्यादयः सप्ततन्तुः यागः । यः सर्वदा आल्हादितलोक: स कथम् एकदाऽनानन्दितजन: ?, अन्यत्र एकदानेन आनन्दितलोकः ।
... य उदात्तः स्वर': स कथ स्वरितः समाहारः ?, अन्यत्र उदात्तेन उदारेण, स्वरितेन स्वर्ग गतेन ।
उच्चापशब्दः उद्गत धनुर्ध्वनिः, न उच्चापशब्दो महापशब्दः । वृद्धत्यागो महादानम् , अन्यत्र महत्परित्यागः । एकत्र शासनानि अन्यत्र ग्रामादीनाम् , अम्यत्र शासनम् आदेशः । स्वजनम् आलिङ्गनम् , स्वजनो बन्धुश्च । अवनितापहारी पृथ्वीसन्तापापनोदी, अन्यत्र वनिता योषित् । अकृतकारुण्य: अकृत्रिमरतत्वः अन्यत्र अविहितदयः । सौजन्य सुजनता; [अन्यत्र असौ स्वङ्गे, निषण्णः, क्व १ जन्ये समामे । नलपृथू राजानौ, ताभ्यां प्रभः समः, अनल: अग्निः, तद्वत् पृथुप्रभो महातेजाः । यः समिद्व्यतिकरस्फुरितप्रताप: काष्ठसम्बन्धदीप्ततःपः, स कथम् अकृशानुभावोपेतः अनग्नित्वयुक्तः ?, अन्यत्र समित् समामः, प्रतापः वीर्यम् , अकृशानुभावोपेतः [ अकृशेन महता अनुभावेन प्रभावेण उपेतः युक्तः ]
ता०टि. गुरुणा वितीर्ण । शासनम् आज्ञा । स्वजने आलिङ्गने । अवनितापहारी विलासेन न न वनितापहारी अपि तु विलासेनैव । असौजन्ये समामे । व्यतिकरः सम्बन्धः । अनुभावः प्रभावः। सगरः सविषः । विश्रुतकीर्तिः विगता श्रुतकीर्तिः शत्रुध्नकलत्रम् । शेषः नागः । तपोवना० आश्रमाणि येन, तपसे वनानि । ०चतुराश्रमः ब्रह्मचारी गृहस्थो वानप्रस्थो यतिरित्याश्रमाः। आविर्भाविता उत्पादिता । ग्राहः तन्तुजीवः। अवनेचरतः न विद्यते वनेचरता यस्य, रक्षणे च । उा महत्या, पृथ्व्या च । भुजङ्गतया विटतया । फेनस्फुट० [फेन-] वत् प्रकट० । यशोट्टहासः यशस्तदेव [अट्टहासः] । नरकपाल० नरकाणां पालाः; प्रकटिता अनेके नरकपाला येन । प्रलयकालविभ्रमः (प्रलयकाल-) वत् विभ्रमो येषाम् । विश्वानि । समस्त भुवनम् । महाभैरवः शम्भुरिव भीषणः । समता प्राञ्जलता। शोण्डीरता वीर-[ता] ।
(1) BSC drop र in सरश्च. (2) BT उदात्तस्वरः. (3) B1 उद्धृत्त० (4) BSC drop कृ in अकृत्रिम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org