________________
२६४
शान्त्याचार्य-ज्ञानकलश- विरचितम्
शा०टि० योग्याः; अन्यत्र पुण्यजनाः यक्षाः कृतं पुण्यजनानाम् उचितम् अनुरूप, यकाभिस्तास्तथोक्ताः, ताभिः । । न्यक्कृतपद्माभिः पद्म कमल, पद्मा लक्ष्मीः । लघुकृतरम्भास्तम्भाभिः तिरस्कृत कदलीस्तम्भाभिः, अपनीतरम्भात्सरोदर्पाभिच | गौर्यापि सुवर्णवर्णया' भवान्यापि । प्रतिपन्न कलान्तरेण अभ्युपगतव्याजेन, अन्यत्र अवाप्तान्योन्यषोडशभागेन । दर्शिताधिना आधिर्मानसी पीडा । मरुतामपि देवानामपि । एकत्र अचलान् गिरीन् अन्यत्र अचलानपि नरान् । अधरैरिव खण्डितैरप्यखण्डितरागैः ये किल खण्डितायुतसङ्केतास्ते कथमखड़ित• रागाः ? खण्डित एव तेषां रागो भवति, विरोधपरिहारे तु खण्डितैः 'दशननखादिविदारितैः, रागः रक्तत्वं प्रेम च । प्रणुन्नैः क्षिप्तैः । अप्रसन्नैः मदिराशून्यैः प्रसादरहितैश्च । नवसुरतेषु द्धरागास्ता नीचर तेवपि सक्ता भवन्ति, कामशास्त्रभणितेषु नवसङ्ख्यरतेषु नीचरतस्य पठितत्वादिति विरोधः परिहारे 'तु नूतनसुरतेषु । पुरुषोत्तमगुणहार्याभिः एकत्र पुरुषोत्तमो हरि:, 7 अन्यत्र पुरुषोत्तमा नरप्रधानाः | वैशिकाः वेश्यासत्काः ।
5
10
12
पुराण' धर्मशाखम्, इतिहास : पुरावृत्तम् | [ प्रमाणविद्भिरित्यादि ] ये प्रमाणवेदिनस्ते कथमप्रमाणविद्याः प्रमाणविद्यारहिताः [इति] विरोधः परिहारे अप्रमाणविद्यैः बहुविधैः । कुटिल' चाणक्यम् | वैशिक' माया वेश्याकर्म च । लाटा लाटदेशजनाः, लाटवाटु च । ये साविकास्ते'' रजोभवभावप्राप्तख्यातयः कथम् [इति ] विरोधः परिहारे नृपसभाप्राप्तप्रसिद्धिः । ओजः शब्दालङ्कारः, प्रसादोऽपि एतौ च भिन्नाविति विरोधः । परिहारे तु ओजस्विभिः तेजस्विभिर्बलवद्भिर्वा, प्रसन्नैः प्रसत्तियुक्तः । ये पूर्वाभिभाषिणस्ते उत्तराभिभाषणपराः कथमिति विरोधः, परिहारस्तु उत्तर वचन निपुणैः । ये विषं नादन्ति ते कथं सकलरसभावज्ञातार इति विरोधः, परिहारस्तु अविषादिभिः विषादरहितैः । चे नैयादिकदर्शन रागिणो भवन्ति ते रुद्रदेवता: 14 कथम् अरौद्रा इति विरोधः, परिहारस्तु अरौद्रैः, अभयानकैः । ये नर्मशीलाः चस्तरी प्रियाः [cf. Hemacandcra's देशी नाममाला iii 2 चत्थरि = चत्थरी = हास: । ], कथ परेषामनुपहासिनः १ अन्येषामुपहासिन एव भवन्तीति विरोधः, परिहारस्तु परान् अन्यान्s उपहासिभिः उपहसद्भिरुपहासयद्भिर्वा । ये गुणग्राहकाः [ रज्जुग्राहका गुणसंग्रहितारो वा ] ते कथं सन्तुष्टाः ? अन्यत्र गुणग्राहिभिः गुणमापकैः । ये परि समन्तात् अत्यागिनः अदातारः, ते संविभागपराः कथम् ? अन्यत्र अपरित्यागिभिः अत्यजनशीलैः । से परेषामुपकारकास्ते कथमात्मनो लाभे उद्यताः ? आत्मलाभ आत्मसंस्कारः, तत्रोद्यमपराः । ग्रहपतिमपि चन्द्रमपि, कला विज्ञान षोडशभागश्च । मित्रमण्डलम् आदित्यबिम्ब, सुहृत्संघात' च । अनूरु' सूर्यसारथिम् । भूभृत्याद राजचरणं मन्दरप्रत्यन्तगिरिं च । स्नेहो रागः ।
(1) BCS drop भि: ( 2 ) BCS सुवर्णया ( 3 ) BCS अभ्युगत० (4) BCS droy आधिमति-2nd पी in आधि... पीडा . ( 5 ) BCS drop xच्युत... रागाः. ( 6 ) Bi droys तु. ( 7 ) B.T विष्णुः.(8) BT इतिहास. ( 9 ) BT drops अप्रमाणविद्या : ( 10 ) BT विशेधाविहारे. ( 11 ) BCS drop - स्ते. (12) AT विरोधपरिहारे. (13) C drops के सकल • रुद्रदेववतार (14) (15) BT drops अन्यान. (16) BCS भाषश्च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org