________________
१२८
कविधनपालकृता तलोत्कीर्णाभिरिव समतया प्राञ्जलतया च यन्त्राकृष्टाभिरिव सरस्वतीकण्ठमणिकण्ठिकानुकारिणीभिर्वर्णपङ्क्तिभिरुद्भासितां प्रशस्तिमैक्षत । क्षणमात्रमर्पितेक्षणश्च तस्यामानन्दनिर्भरेण चेतसा चिन्तां विवेश । 'किं तदस्ति नाम रमणीयमद्भुतं वा जगति यन्न दर्शयतीन्द्रजालिक इव मायाप्रगल्भः शुभकर्मणामासादितोदयः परिणामो, येन यानि वार्तास्वायनाकर्ण5 नीयानि स्वप्नेऽप्यनुपलभ्यानि मनसायसंकल्पनीयानि वर्षशतैरप्यननुभवनीयानि जन्मान्त
रैरप्यनवलोकनीयानि मर्त्यलोके तान्येकस्मिन्नहनि मुहूर्ताभ्यन्तरे सहसैवाद्य मे दृष्टिपथमुपागतानि ? प्रथमं तावत् पर्यटदनन्तसत्त्वसंघातघोरे संसार इवातिदूरपारेऽस्मिन् महाकान्तारे सारभूतं धर्मतत्त्वमिवानेकभङ्गगम्भीर सरो दृष्टम् । अथ त:वगाहनकर्मनिर्मलीभूतात्मना
त्रिविष्टपमिव त्रिदशोपभोगयोग्य मुन्निद्रकल्पद्रुममालामनोहर मुद्यानमिदम् । क्रमेण चापवर्ग10 स्थानमिव वर्णनापथोत्तीर्णमाहात्म्यस्वरूपमेतजिनायतनम् । अतः पर किमन्यदवलोक
नीयम् ? संप्रति हि दीयते दर्शनीयकथानां मुद्रा । क्रियते तेजस्विवार्तानां निवृत्तिः । वितीर्यते आश्चर्यदर्शनस्योदकाञ्जलिः । विधीयते लोचनयोरुभयथापि पट्टबन्धः । कथं नु नामास्य प्राणिन इव कार्येन कर्मपरिणतिविशेषा ज्ञायन्ते ? ज्ञायमाना अपि केन प्रकारेण
वर्ण्यन्ते ? वर्ण्यमाना अपि कया युक्त्या परस्य प्रतीतिविषयमारोप्यन्ते ? वञ्चिताः खलु 15 दिवोकसोऽपि ये परित्यक्तसुरलोकवसतयः सततमिह न वसन्ति । किमन्यजन्मान्तरे
कृतमवदातमेभिः पारापतप्रभृतिभिः पत्ररथैः कर्म येन तिर्यक्त्वेऽप्युपनतोऽयमायतनच्छद्मना विमानवासः १ न जाने, केन सुकृतकर्मणा निर्मापितमिद, केन वा निर्मित, कुतो वा रत्नशिलाराशिरेतावानेष लब्धः १ न तावतिसमृद्धोऽपि मर्त्यधर्मा कश्चनापि कारयितु
मिदमीश्वरः । न विश्वकर्माणमन्तरेण कर्मनैपुणमित्थंभूतमपरस्य शिल्पिनः संभाव्यते । 20 न च रत्नसानुगिरेरन्यत्र रत्नपदामीदृशीनामुत्पत्तिः श्रूयते । सर्वथा देवनिर्मितेनामुना
भवितव्यम् । मन्ये च येनैतदायतनमुत्पादित सरोऽप्यदस्तेनैव खानितमारामोऽध्येपस्तस्यैव । कीर्तिर्या चास्य वृत्तान्तस्याभिव्यक्तेः कारण, तस्यामपीह प्रशस्तावष्टादशलिपिव्यक्तिव्यतिरिक्तः कोऽप्यपरो लिपिविन्यासः । स एष व्यक्ताक्षरोऽपि न शक्यते ऊहितुम् ।
केवलमालोकितपूर्व इव चेतसि चमत्कारमातनोति । न चात्र संचरन् वनचरोऽपि 25 तथाविधः कश्चिदालोक्यते यमापृच्छय सम्यग्वृत्तान्तमेनमवगच्छामि । यद्वा, किमनेन
पृष्टेन ज्ञातेन वा प्रयासमात्रफलेन प्रयोजनम् १ ज्ञात्वापि कस्य प्रतिपाद्य निर्घतो भविष्यामि, विना कल्पकोटिजीविना कुमारहरिवाहनेन ? न जाने वयस्यः क्वेदानी वर्तते ?' इत्यादिचिन्ताव्याक्षिप्तचेतस एवास्य सुरासुरवृन्दनिर्दयाकर्षणभ्रमन्मन्दरतटाच्छोटनसमुच्छल
दमृतशीकरासारशिशिरस्तर्पयन्निवादयन्निव हृदयमतिशयपेशलो ध्वनिरतर्कितव्यक्तिरेव 30 श्रवणकन्दरे मन्दमन्दमविशत् ॥
१७३) उपजातसंभ्रान्तिना च मानसेन तस्य शब्दस्य दत्तकर्णः स्तम्भित इवोत्कीर्ण इव लिखित इव निश्चलसर्वाङ्गः क्षणमात्र सिंहलराजपुत्रः स्थितवान् । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org