________________
सत्यशासन-परीक्षा
[६६६. कथमेकमेव परब्रह्मास्ति, परस्परं भिन्नानां नानात्मनां प्रतीतेरिति चेत् , न, एकस्यापि तस्य भूते भूते व्यवस्थितस्य जलेषु चन्द्रवत् अनेकधा प्रतिभाससंभवात् । तदुक्तम्
"एक एव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥"
[अमृतवि० उप० ५० १२ पृ० १५ ] इति ७. तथा पृथिव्यादयोऽपि न ततस्तत्त्वान्तराणि, तद्विवर्तत्वात् । तच्चोच्चावचचराचरंरूपप्रपञ्चस्यास्य तत एव जन्मादिभावात् । तथैवोक्तं भगवता बादरायणेन-"जन्माद्यस्य यतः" [ ब्रह्मसू० १।१।२] इति ।
$ ८. अथ कथं प्रपञ्चाध्यवसायविध्वंसनकरात् परमपुरुषात् प्रपञ्चस्य जन्मादीति चेत् ; न; अनाद्यविद्यासचिवादेव तस्मात्तस्य भावात् ।
६९. अविद्या तर्हि द्वितीया स्यादिति चेत् ; तदसत् ; तस्याः सदसत्त्वविचाराभ्यां प्रमाणपदवीमविगाहमानायाः, अनिर्वाच्यत्वात् । तदुक्तम्
"श्रनिर्वाच्याऽविद्या-द्वितय-सचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽवनयः । यतश्चाभूद् विश्वं चरमचरमुच्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् ॥"
] इति १०. नन्वेवमपि विवर्तविवर्ते' द्वैतस्य भावात् कथमद्वैतसिद्धिरिति चेत् ; न; विवर्तानां रज्यो' भुजङ्गाकारवत् मायारूपाणामेव तस्मिन् प्रतिभासनात् । तदप्युक्तम्
"यस्मिन् रज्जुभुजङ्गवत् त्रिभुवनं भाति भ्रमान्निर्भये । सोऽहं नित्यनिरामयामृतवपुः संसारसारः परम् ।।"
] इति ११. सकलोऽप्येष विवर्तः सत्यामविद्यायां प्रतिभाति, नत्वविद्यानिवृत्तौ । सा चाविद्यानिवृत्तिरेव मोक्षः । तस्य चोपायो ब्रह्मसाक्षात्कार एव । सोऽपि श्रवण-मनन-ध्यानैर्भवति । तथैव श्रुतिः-"श्रात्मा वा रे द्रष्टव्यः श्रोतव्योऽनुमन्तव्यो निदिध्यासितव्यः' [ बृहदा० २।४।५ ] तथा स्मृतिश्च---
"श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येय पते दर्शनहेतवः ॥"
] इति $ १२. तत्रोपनिषद्वाक्यानां परब्रह्मणि10 तात्पर्यावधारणं श्रवणम् । श्रुतार्थस्य युक्त्या विचारणं मननम् । श्रवणमननाभ्यां निश्चितार्थस्य मनसा परिचिन्तनं ध्यानम् । तच्च नित्यानित्य
१. नानास्वरूपाणां घटपटाद्यर्थानाम् । २. भिन्नतत्त्वानि । ३. परमपुरुषात् । ४. परमपुरुषात् । ५. अविद्यायाः। ६. परमपुरुषे ।
1. परमब्रह्म० ख०। 2. —दनेदाताप्र-क०। 3. भगता ख०। 4. जन्मादिति ख०, ग०। 5. तीयस्थादिति ख०। 6. यस्य विय० क० । यस्मैतत् विय० ग०। 7. विवाविवर्ति क० ख० । 8. रज्जौ क० । 9. दारः क०, ग० । दारा ख० । 10. परमब्रह्मणे ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org