________________
- १७ ]
परब्रह्माद्वैतशासन-परीक्षा
३
वस्तुविवेकः शमदमादिसंपत्तिरनामुत्र च वैराग्यं मुमुक्षुत्वमिति' साधनचतुष्टयसंपन्नस्य संपद्यते । . तस्मिंश्च ब्रह्मसाक्षात्कारः । तत्र च परमब्रह्म की भावलक्षणमोक्षप्राप्तिरिति ।
[ उत्तरपक्षः ]
$ १३. तदेतदद्वैतैकान्तशासनं प्रत्यक्षविरुद्धम् ; प्रत्यक्षेण देशकालाकारभेदविशिष्टानां क्रियाकारकाणां स्थानगमनादिग्रामारामकरितुरगादिरूपाणां नानाबहिरर्थानां तद्विषयविचित्रप्रतिभासविशेषाणां परमार्थानां परस्परतो व्यावृत्तानां प्रस्फोटमध्यवसायात् । भेदावभासिना च प्रत्यक्षेणाद्वैतस्य विरुद्धत्वात् । सर्वथैकस्मिन् भेदप्रत्यक्षस्यानुपपत्तेः ।
$ १४. नन्वेकस्मिन्नपि क्रियाकारक भेद प्रत्यक्षादेः संभवात् स्वप्नसंवेदनवत् कथमद्वैतं [प्रत्यक्ष ] विरुद्धमिति चेत्, न, स्वप्नसंवेदनस्याप्येकत्वे तद्विरोधस्य तदवस्थत्वात् । तत्रान्यदेव हि क्रियाविशेषसंवेदनं स्ववासनोत्थम्, अन्यदेव च कारकविशेषसंवेदनं प्रत्यक्षम्, न पुनरेकमेव, तद्धेतुवासनाभेदाभावप्रसंगात् । जाग्रदशायामिव स्वप्नादिदशायामपि पुंसोऽनेकशक्त्यात्मकस्य क्रियाकारक विशेष प्रतिभासवैचित्र्यव्यवस्थितेः । कस्यचिदेकरूपस्यात्मगगनादेरप्यने कान्तवादिनाम् अनेकक्रियाकारकविशेषप्रतिभासालम्बनत्वा 'सिद्धेर्विरुद्धमेव तत्प्रत्यक्षेणाद्वैतम् ।
$ १५. ननु भेदावभासीदं प्रत्यक्षं भ्रान्तम्, इन्द्रजालादिप्रत्यक्षवदिति चेत्; तदेतद्द्भ्रान्ततरम्, उक्तदोषाऽपरिहारात् । सर्वथैकस्मिन् भ्रान्तस्याऽभ्रान्तस्य वा भेदप्रत्यक्षस्य दृष्टान्ताभावेनासंभवात् । भ्रान्तेनापि ' तेनाद्वैतविरोधस्य तदवस्थत्वात् । यथाकथञ्चिदुक्तमप्येतदयुक्तम् र, यस्मादिन्द्र जालादिकमेव भ्रान्तम्, बाधकसद्भावात् । नहि 'करोति कुम्भं कुम्भकारो दण्डादिना, भुङ्क्ते पाणिनौदनम्' इत्यादि क्रियाकारक भेदप्रत्यक्षं भ्रान्तम्, बाधकाभावादिति बालाबलादयोऽपि प्रतिपद्यन्ते । तदुक्तं भटटाकलङ्कदेवै :
" इन्द्रजालादिषु भ्रान्त मोरयन्ति न चापरम् । अपि चाण्डालगोपालबाललोलविलोचनाः ॥"
[ न्यायवि० १५२ ] इति
$ १६. नन्वत्रापि बाधकमस्त्येवेति चेत्, तदसत्; प्रत्यक्षविषयभेदान्यथाभूतपरमब्रह्मा द्वैतसाधकस्य कस्यचिदपि प्रमाणस्यासंभवात् । विषयान्यथात्वसाधकस्यैव बाधकत्वोपपत्तेः शुक्तौ रजतज्ञानस्य शुक्तिका ज्ञानवत् ।
Jain Education International
$ १७. ननु च प्रत्यक्षमेव परमब्रह्मसाधकम्, अक्षिविस्फालनानन्तरं निर्विकल्पकस्य सन्मात्रविधिविषयतयोत्पत्तेः, सत्तायाश्च परमब्रह्मस्वरूपत्वात् ।
"अस्ति ह्यालोचनाज्ञानं 10 प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानं 11 सदृशं शुद्धवस्तुजम् ॥”
[ मी० लो० प्रत्यक्ष० लो० १२० ]
8
१. भेदप्रत्यक्षेण ।
1. मुमुक्षत्व क०, ग० । 2. प्रस्फुट ग० । 3. क्रियाकारभेद० ख० । 4. करबै तद्वि० क० । 5. कारकः संवेदनम् क०, ख० 16. -लम्बनात्वा० ख० । - लम्बकत्वा० ग० । 7 तदप्रयुक्तम् क०, ख० । 8. बाधकस्योपपत्ते क० । १. ग प्रतौ 'च' नास्ति । 10. -नज्ञानम् क०, ख० । 11. - विज्ञानस० ग० ।
For Private & Personal Use Only
www.jainelibrary.org