SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ -श्रीविद्यानन्दि-विरचिता सत्यशासन-परीक्षा विद्यानन्दाधिपः स्वामी विद्वदेवो जिनेश्वरः । यो लोकैकहितस्तस्मै नमस्तात् स्वात्मलब्धये ॥ १ ॥ १. अथ सत्यशासनपरीक्षा । इयमेव परीक्षा यः 'अस्येदमुपपद्यते न वा' इति विचारः । सा च शासनस्य सत्यत्व 1 एवोपपद्यते, तत्रैव विवादात्, वक्तुराप्तत्ववत् । न तु शासनत्वमात्रे, तदेभावात्, वक्तृत्वमात्रवत् । २. इह हि पुरुषाद्वैत-शब्दाद्वैत-विज्ञानाद्वैत-चित्राद्वैत-शासनानि, चार्वाक-बौद्ध-सेश्वरनिरीश्वर-सांख्य-नैयायिक-वैशेषिक-भाट्ट-प्राभाकरशासनानि, तत्त्वोपप्लवशासनम् अनेकान्तशासनं चेत्यनेकशासनानि प्रवर्तन्ते । न च सर्वाण्यपि तानि सत्यानि भवन्ति, द्वैताद्वैत-भावाभावादिपरस्पर-विरुद्धार्थप्रतिपादनात् । न च तत्र न किंचिदपि सत्यं स्यादित्यारेकितव्यम्; एकान्तानेकान्तयोद्वैताद्वैतयोर्भावाभावयोर्वा तेजस्तिमिरयोरिव परस्परं विप्रतिषिद्धयोर्द्वयोरपि विधिवत् प्रतिषेधस्याप्यसंभवेन अन्यतरस्य नियमेन विधेरुपपत्तेः कस्यचित्सत्यस्यावश्यमभ्युपगन्तव्यत्वात् । ३. तथा च तत्र किं नु खलु शासनं स्यात्सत्यमिति परीक्ष्यते—इदमेव हि सत्यशासनस्य सत्यत्वं नाम यदृष्टेष्टाविरुद्धत्वम् । प्रत्यक्षानुमानादिप्रमाणविरुद्धस्यापि सत्यत्वे न किंचिदसत्यं जगति स्यात् । तदविरुद्धस्याप्यसत्यत्वे किमपि न सत्यं स्यात् । अतोऽव्याप्त्यतिव्याप्त्यसंभवासंभवाददुष्टमिदं सत्यलक्षणमुपलक्ष्यते । ४. तच्च दृष्टेष्टाविरुद्धत्वमनेकान्तशासने एवेति तदेव सत्यशासनधवीमारोढुमीष्टे 4 एकान्तशासनं तु सर्वमसत्यमेव, दृष्टेष्टविरुद्धत्वात् । तथाहि [परब्रह्माद्वैतशासन-परीक्षा] [ पूर्वपक्षः ] ५. तावत्परब्रह्माद्वैतं दृष्टेष्टविरुद्धमेव । इदं हि ब्रह्मवादिमतम् देशकालाकाराव्यवच्छिन्ननिय॑भिचार-सकलावस्थाव्यापिप्रतिभासमात्रम् अखण्डज्ञानानन्दामृतमयं परब्रह्मैकमेवास्ति न तु द्वितीयम् । “एकमेवाद्वितीयं ब्रह्म' [छान्दो० ६।२।१] इत्याद्याम्नायात् । १. तुलना-जयन्ति निर्जिताशेषसर्वथैकान्तवादिनः । सत्यवाक्याधिपाः शश्वविद्यानन्दाः जिनेश्वराः ॥-प्रमाणपरीक्षा मंगलाचरण । २. विवादाभावात् । ३. विरुद्धयोः। ४. प्रमाणाविरुद्धस्य । 1. त्वविदोपपद्यते क.। 2. खिल ख० । 3. शासनावेति ख०। 4. मारोढोमीष्टे क.। 5. मात्रस्वरूपम् ख०, ग० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001567
Book TitleSatyashasana Pariksha
Original Sutra AuthorVidyanandi
AuthorGokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages164
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy