________________
अष्टसहस्त्री ग्रन्थ में आगत उद्धृत श्लोक
(द्वितीय परिच्छेद से दशम परिच्छेद तक)
"ब्रह्मेति ब्रह्मशब्देन कृत्स्नं वस्त्वभिधीयते । प्रकृतस्यात्मकात्स्यस्य वै - शब्दः स्मृतये मतः ॥ १ ॥ “ऊर्द्धमूल मधः- शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि तस्य पर्वाणि यस्तं वेत्ति स वेदवित्" ॥२॥ "आत्मापि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितम् । ब्रह्मापि स तथैवात्मा सद्वितीयतयेक्ष्यते" || ३ || ३ आत्म ब्रह्म ेति परोक्ष्यसद्वितीयत्वबाधनात् । पुमर्थे निश्चितं शास्त्रमिति सिद्धं समीहितम् ||४|| "ब्रह्माऽविद्यावदिष्टं चेन्ननु दोषो महानयम् । निरवद्ये च विद्याया आनर्थक्यं प्रसज्यते ॥ ५॥ ५ नाऽविद्याऽस्येत्यविद्या यामेव स्थित्वा प्रकल्पते । ब्रह्मधारा त्वविद्येयं न कथंचन युज्यते ||६|| यतोऽनुभवतोऽविद्या ब्रह्मास्मीत्यनुभूतिमत् । अतो मानोत्यविज्ञानध्वस्ता साप्यन्ययात्मता ||७|| ७ ब्रह्मण्यविदिते बाधान्नाविद्येत्युपपद्यते 1 मितरां चापि विज्ञाते मृषा धीर्नास्त्यबाधिता || अविद्यावान विद्यां तां न निरूपयितुं क्षमः । वस्तुवृत्तमतोऽपेक्ष्य नाविद्येति निरूप्यते ॥६॥ ६ वस्तुनोन्यत्र मानानां व्यापृतिर्न हि युज्यते । अविद्या च न वस्त्विष्टं मानाघाताऽसहिष्णुतः ॥ १०॥१० अविद्याया अविद्यात्वे इदमेव च लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिष्यते ॥ ११॥ ११ " त्वत्पक्षे बहु कल्प्यं स्यात् सर्वमानविरोधि च । कल्प्याऽविद्येवमत्पक्षे सा चानुभवसंश्रया" ॥१२॥१२ " अन्य व्यतिरेकाद्यो यस्य दृष्टोनुवर्तकः । स्वभावस्तस्य तद्धेतुरतो भित्रान्न सम्भव:" ।।१३।। १३ “सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद्व्यावृत्तिभागिनः " ॥ १४ ॥ १४ तस्माद्यतो यथार्थानां व्यावृत्तिस्तन्निबन्धनाः । जातिभेदा: प्रकल्प्यन्ते तद्विशेषावगाहिनः ||१५|| १५ ततो यो येन धर्मेण विशेषः संप्रतीयते । न स शक्यस्ततोन्येन तेन भिन्ना व्यवस्थितिः ॥ १६ ॥ १६
१. पृ० १५, २. पृ० १७, ३. पृ० २१, ४. पृ० २२, ५. पृ० २६, ६. पृ० २७, ७. पृ० २७, ८. पृ० २७, ६. पृ० २७, १० पृ०२७, ११. पृ० २७, १२. पृ० २८, १३. पृ० ४४, १४. पृ० ८०, १५. पृ० ८०, १६. पृ० ८१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org