________________
६०६ ]
दशम परिच्छेद
अज्ञानाच्चेद्ध वो बंधो, ज्ञेयानन्त्यान्न केवली । ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद्बहुतोऽन्यथा ॥ ६६॥ विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् । अवाच्यते कांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ६७॥ अज्ञानान्मोहिनो बंधो, नाज्ञाद्वीतमोहतः । ज्ञानस्तोकाच्च मोक्षः स्यादमोहान्मोहिनोऽन्यथा ॥ ८ ॥ कामादिप्रभवश्चित्र:, कर्मबंधानुरूपतः । तच्च कर्म स्वहेतुभ्यो, जीवास्ते शुद्ध्यशुद्धितः ॥ ६६॥ शुद्ध्यशुद्धी पुनः शक्ती, ते पाक्यापाक्यशक्तिवत् । साद्यनादी तयोर्व्यक्ती, स्वभावोऽतर्कगोचरः ॥१००॥ तत्वज्ञानं प्रमाणं ते, युगपत्सर्वभासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥१०१॥ उपेक्षाफलमाद्यस्य, शेषस्यादानहानधीः । पूर्वा वाज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥१०२॥ केवलिनामपि ॥ १०३॥ वाक्येष्वनेकांतद्योती, गम्यं प्रति विशेषणम् । स्यान्निपातोर्थयोगिस्वात्तव देयविशेषकः ॥ १०४॥
स्याद्वादः सर्वथैकांत त्यागात् किंवृत्तचिद्विधिः । सप्तभंगनयापेक्षो,
स्याद्वाद केवलज्ञाने, सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षारच, ह्यवस्त्वन्यतमं भवेत् ॥ १०५ ॥ सधर्मणैव साध्यस्य, साधर्म्यादिविरोधत: । स्याद्वादप्रविभक्तार्थ - विशेषव्यंजको नयः ॥ १०६॥ नयोपनयैकांतानां, त्रिकालानां समुच्ययः । अविभ्राड् भावसम्बन्धो द्रव्यमेकमनेकधा ॥१०७॥ मिथ्यासमूहो मिथ्या चैन्न मिथ्यैकांततास्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥१०८॥ नियम्यतेऽर्थी वाक्येन विधिना वारणेन वा । तथान्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥ १०६ ॥ तदतवस्तु वागेषा तदेवेत्यनुशासती । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना ॥ ११० ॥ वाक्स्वभावोऽन्य वागर्थप्रतिषेधनिरंकुशः । आह च स्वार्थसामान्यं तादृग् वाच्यं खपुष्पवत् ॥ १११ ॥ सामान्यवाग् विशेषे चेन्न शब्दार्थो मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कार: सत्यलांछनः ॥ ११२ ॥ विधेयमीप्सितार्थंग प्रतिषेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥ ११३॥ इतीयमाप्तमीमांसा विहिताहितमिच्छता । सम्यग्मिथ्योपदेशार्थ - विशेषप्रतिपत्तये
॥ ११४॥
अष्टसहस्री
Jain Education International
इति देवागमस्तोत्रम्
कफ़ क
For Private & Personal Use Only
www.jainelibrary.org