________________
५२० ]
अष्टसहस्रो
[ द० प• कारिका १०१
प्रमिति प्रति साधकतमत्वात् प्रमाणत्वं कुतो न भवेदिति चेन्न, तस्य कर्मत्वेन' कर्तृत्वेन च साधकतमत्वासिद्धेस्तत्सिद्धौ करणत्वप्रसङ्गात् । करणस्य तत्त्वज्ञानात्मनः प्रमाणत्वे को विरोधः ? तदेवं सकलप्रमाणव्यक्तिव्यापि साकल्येनाप्रमाणव्यक्तिभ्यो व्यावृत्तं प्रतीतिसिद्ध तत्त्वज्ञानं प्रमाणलक्षणं, तस्य सुनिश्चितासंभवद्बाधकत्वात्; संभवबाधकस्य, संशयितासंभवद्बाधकस्य', 'कदाचित्क्वचित्कस्य चिन्निश्चितासंभवबाधकस्य च प्रमाणत्वायोगात्', प्रवृत्तिसामर्थ्यस्यार्थवत्क्रियाप्राप्तेरदुष्ट कारणजन्यत्वस्य लोकसंमतत्वस्य च प्रमाणलक्षणस्य तत्त्वार्थश्लोकवातिके प्रपञ्चतोऽपास्तत्वात् । 'सम्पूर्ण प्रमाण व्यक्तियों में व्याप्त है' इस विशेषण से अव्याप्ति दोष का परिहार किया गया है सम्पूर्णया अप्रमाण व्यक्तियों से व्यावृत्त इस विशेषण से अतिव्याप्ति का निराकण होता है एवं प्रतोति सिद्ध विशेषण से असम्भव दोष नहीं आता है । तथैव 'सुनिश्चितासम्भवबाधकत्वात्' हेतु निर्दोष है यदि असम्भवबाधक पद न देते तो बाधा सहित भी प्रमाण हो जाते तथा निश्चित पद न देते तो संशयितासम्भवद्बाधक भी ठीक हो जाता तथा 'स' शब्द नहीं देते तो "कदाचित् क्वचित् कस्यचित् निश्चितासम्भवबाधकत्व" भी ठीक हो जाता है किन्तु ऐसा नहीं है अतः 'सु-सुष्ठ सकल देशकाल पुरुषापेक्षया" इस प्रकार से अर्थसिद्ध होता है । अभिप्राय यह हुआ कि सम्यक् प्रकार से सकल देशकाल पुरुष की अपेक्षा से निश्चित रूप से असम्भव है बाधा का होना जिसमें उसे "सुनिश्चितासम्भवद्बाधकत्वात्" कहते हैं।
नैयायिक ने प्रवृत्ति की सामर्थ्य को प्रमाण का लक्षण कहा है, सौगत ने अर्थवक्रिया की प्राप्ति को, भाट्ट ने अदुष्टकारणजन्य को एवं प्राभाकर ने लोक संमततत्त्व को प्रमाण का लक्षण कहा है इन सबका तत्त्वार्थश्लोकवार्तिक में विस्तार से खण्डन किया गया है।
1 स्या० वदति यदुक्तं त्वया तन्न वस्मात्तत्वज्ञानं ज्ञेयलक्षणकमंतापन्न तथा प्रमातलक्षण कर्तृतापन्नञ्च यदा भवति तदा तस्य साधकतमत्वं न सिद्धयति यतः । तस्य साधकतमत्वस्य सिद्धौ सत्यां तदा कर्मणः कर्तुत्र करणत्वमायाति यतः तत्त्वाज्ञानलक्षणं कारणं प्रमाणं भवत्वत्र कोपि न विरोध: । दि० प्र० । 2 उक्तप्रकारेण । ब्या० प्र० । यत एवं तत्तस्मात्प्रत्यक्षानुमानादि सर्वप्रमाणविशेषव्यापकं सामस्त्येनाप्रमाणविशेषेभ्योव्यावृत्तं सत् । तत्त्वज्ञानं प्रमाण भवति कस्मात्तस्य तत्त्वज्ञानस्य बाधकप्रमाणानामसंभवत्वात् पुनरुत्पद्यमानबाधकप्रमाणस्य संदिग्धबाधकप्रमाणासंभवस्य च तत्त्वज्ञानस्य कदाचित्काले क्वचित्तदेशे कस्यचित्पुंसो निर्णीतबाधकत्वासं भवस्याघटनात् । दि० प्र० । 3 मेरुमूनि मोदकराशयः सन्तीति । ब्या० प्र० । 4 बाधकस्य च कदाचित् । इति पा० । ब्या प्र०। 5 ज्ञानस्य । ब्या० प्र०। 6 द्वीपान्तरं गत्वा लिङ्गलिङ्गिसम्बन्धं स्मृत्वायतस्य । ब्या०प्र० 17 ननु तत्त्वज्ञानं प्रमाणलक्षणं कूतः प्रवृत्तिसामदेिरेव तल्लक्षणत्वादित्यत आह । ब्या० प्र० । 8 सामर्थ्य तस्यार्थ क्रिया । इति पा० । तथा अर्थ क्रियाप्राप्तिलक्षणं योगाभ्युपगतं प्रवृत्तिसामर्थ्य लोकसम्मतलक्षणं मीमांसाभ्युपगतमदुष्ट कारणजन्यञ्च प्रमाणलक्षणं भवतीति तत्त्वार्थ श्लोकवातिकालबारे महता प्रपञ्चेन निराकृतं यतः । दि० प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -