SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २२६ ] अष्टसहस्री [ ४० प० कारिका ५६ प्रतीति स्वसमयानुरागमात्रेणाननुभूयमानामप्यविरुद्धविषयां परिभाषते इति किमन्यत्कारणं महतोभिनिवेशात् ? तदेवं कथंचित् क्षणिकत्वसाधने प्रत्यभिज्ञानं नानुमानविरुद्धम् । नापि प्रत्यक्षविरुद्धं सर्वस्येदानीन्तनतया प्रत्यक्षेणानुभवात्, तेन तस्यातीतानागततयानुभवने नाद्यनन्तपरिणामात्मकस्यानुभवप्रसङ्गाद्योगित्वापत्तेः, साम्प्रतिकतयानुभवस्यैव क्षणिकत्वानुभवरूपत्वात्', क्षणमात्रस्यैव साम्प्रतिकत्वोपपत्तेः, पूर्वोत्तरक्षणयोः साम्प्रतिकत्वेऽनाद्यनन्तक्षणसंततेरपि साम्प्रतिकत्वानुषङ्गादतीतानागतव्यवहारविलोपात् । न चैवं क्षणिकैकान्तस्य' मात्र को ही सांप्रतिक कहा जाता है। पूर्वोत्तर क्षण को भी सांप्रति का मान लेने पर अनादि अनन्त क्षण संतति भी सांप्रतिक-वर्तमान काल की बन जायेगी पुनः अतीत अनागत काल के व्यवहार का ही लोप हो जायेगा । किन्तु इस प्रकार का क्षणिकैकांत प्रत्यक्ष से प्रसिद्धि में नहीं आ रहा है । अत: कथंचित् क्षणिक का विरोध नहीं है। पर्यायाकार से पदार्थ का इदानींतन (इस समय) रूप से अनुभव के विच्छेद होने पर भी द्रव्य रूप से उसका अविच्छेद है अर्थात् मृत्पिड रूप पर्याय का वर्तमान काल में इदानींतन रूप से अनभव है, किन्तु स्थास काल में वह विछिन्न हो जाता है। स्थास का भी अपने वर्तमान काल में इदानींतन रूप से अनुभव है तथा कोश काल में नहीं है, किन्तु मिट्टी रूप द्रव्य का मृत्पिड, स्थास, कोश, कुशूलादि काल में सर्वदा ही-'इस समय मिट्टी है, इस समय मिट्टी है,' इस प्रकार का अनुभव नष्ट नहीं होता है। 1 आत्मादेरपिद्रव्याकारेण सतः ज्ञानादिपर्यायाकारेणासत एव कार्यकारणात् । कर्मादेरपि पर्यायाकारणासतः द्रव्याकारेण सत एव संयोगादिकार्यकारणाद्रव्यपर्याययोरत्यन्तभेदाभावात् । = यत एवं तत्तस्माद्वस्तुनः कथञ्चित् क्षणिकत्वसाधने प्रत्यभिज्ञानमनुमानेन विरुद्धं न । प्रत्यक्षेणापि विरुद्धं न । कस्मात् । सर्वस्यार्थस्य साम्प्रतिकतयाअध्यक्षेणानुभवनात् = अनाद्यनन्तपरिणमनस्वभावस्य तस्यार्थस्य तेन प्रत्यक्षेणातीतानागततयानुभवने सति अर्थस्यानुभव: प्रसजति । दि० प्र० । 2 एवं किमिति प्रतिपाद्यते यावता द्रव्यपर्याययोः भेदप्रतीतौ अविरोधं बुद्धयामहे अत: एककारणं विरोधादिभिरभिद्रत मेवेत्युक्ते आह । दि० प्र०। 3 उक्तप्रकारेण । दि० प्र०। 4 वस्तुनः । ब्या०प्र० । 5 अन्यथा । ब्या० प्र०। 6 अत्राह परः। अनाद्यनन्तपरिणामात्मकस्यार्थस्य प्रत्यक्षेणानुभवः प्रसजतु को दोष इत्युक्ते स्यात्तदा संसारिणां योगित्वमायाति = वर्तमानत्वेन योनुभवस्तदेव क्षणिकत्वानुभवरूपं कुतः क्षणमात्र मेव साम्प्रतिकत्वमुपपद्यते-पूर्वोत्तरपर्याययोः साम्प्रतिकत्वे सति को दोष इत्युक्ते स्यात् अनाद्यनन्तपर्यायसंततेरपि वर्तमानत्वमायाति । एवं सति को दोष इत्युक्ते स्यादयमतीतकालोयमनागतकाल इति व्यवहारो विलप्यते । दि० प्र०। 7 कूत एतदित्युक्ते आह । दि० प्र०। 8 अन्यथा शब्दार्थः । ब्या० प्र०। 9 अत्राह पर: सर्वथा क्षणिकः प्रत्यक्षेण सिद्धयति तथा कथञ्चिदक्षणिकत्वं विरुद्धयते स्यान्न चैवं कुतः वस्तुनः पर्यायाकारत्वेन साम्प्रतिकतयानभवविच्छेदे सत्यपि द्रब्यत्वेन तस्यानुभवस्याविच्छेदादनूभवविच्छेदे सति द्रव्यत्वं विरुद्धचतेतहि द्रव्यत्वं किमित्युक्ते अनवरतं विच्छेदरहितवर्तमानत्वमेव द्रव्यत्वम् । अतः प्रत्यक्षप्रमाणेन सर्वथा क्षणिकं न व्यवतिष्ठते सर्वथा नित्यवत 1-यथा सर्वथकान्ते प्रत्यक्षं नोत्पद्यते तथा क्षणिकैकान्तद्वयेपि प्रत्यभिज्ञानस्य नोत्पत्ति एवं वस्तू कथञ्चिन्नित्यमेव कथञ्चिदनित्यमेव इत्यनेकान्त: सिद्धः । दि० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy