________________
२१. ]
अष्टसहस्री
[ कारिका ११
[ विश्वव्यापिन्या महासत्तायाः स्पष्टीकरणं ] तथा भेदानेव' संद्रवन्तीत्यादि प्रतिपत्तव्यं क्षितान् कुर्वन्ती कलयन्ती भवन्ती च सत्त्व 'तिष्ठतीत्यादियोजनायाः संभवात् । तथा चोक्तं "सत्ता सकलपदार्था सविश्वरूपा त्वनन्तपर्याया। स्थितिभङ्गोत्पादार्था'सप्रतिपक्षा भवत्येका"8, इति ।
[ विश्व व्यापी महासत्ता का स्पष्टीकरण ] उस प्रकार के भेदरूप जीवादि पदार्थों को सत्ता ही "संद्रवंति" प्राप्त करती है, इत्यादि समझना चाहिये । "क्षितान् कुर्वन्ती, कलयन्ती, भवन्ती च सत्ता एव तिष्ठति' इत्यादि योजनायाः संभवात्।" वह सत्ता ही निवासितों-पदार्थों को प्राप्त करती हुई, क्षेत्ररूप होती हुई तथा कलयन्ती-कालरूप होती हुई और वही भवन्ती-भावरूप होती हुई, सत्ता ही ठहरती है । इत्यादिरूप योजना-व्यवस्था उस सत्ता में ही संभव है। कहा भी है
श्लोकार्थ-- 'यह सत्ता सकल पदार्थों में संस्थित है, अखिल विश्व रूप है, अनंत पर्यायात्मक है, स्थिति, भंग और उत्पादात्मक है तथा अपने प्रतिपक्ष-असत्ता से सहित एवं विशेषों से रहित स्वरूप की अपेक्षा से एक है।'
1 जीवादीन = परस्परं व्यावृत्तस्वभावाननन्तपर्यायान् प्रतिक्षणम् । प्रकारान्तरेण सत्तायाद्रव्यादिव्यवहारविषयत्वमेकाशीतिविकल्पाञ्च प्रतिपादयिषवः प्राहुस्तथा भेदेनेवेति । (दि० प्र०) 2 तानेव इति प 3 प्राप्नुवन्ती। सत्तैव तिष्ठतीत्यादि योज्यमिति पूर्वोक्तमत्र कलयन्ती भवन्तीत्यत्र च संबन्धनी वगन्तव्यः । (दि० प्र०) 4 यतः सकलपदार्थाः तत एव । सविश्वरूपा । यतः सविश्वरूपा तत एवानन्तपर्याया। यतोऽनन्तपर्याया। तत एव सप्रतिपक्षेति भावः । सप्रतिपक्षा। प्रतिपक्षेन भेदेन सहिता। इदमार्यावृतं गाथारूपेण पञ्चास्तिकायप्राभते श्री कुन्दकुन्दाचार्यनिरूपितम् । तद्यथा ।
सत्ता सव्वपयत्था सविस्सरूवा अणन्तपज्जाया। भंगुप्पादधुवत्ता सप्पडिवक्खा हवदि एक्का ॥८॥ इत्यस्य व्याख्यानम् । हवदि भवति । का की सत्ता । कथंभूता सव्वपयत्था = सर्वपदार्थाः । पुनरपि कथंभूता, सविस्सरूवा = सविश्वरूपा । पुनरपि कि विशिष्टा भंगुपादध्रुवत्ता। भंगोत्पादध्रौव्यात्मिका । पुनरपि किरूपा रूपेणका एवं पञ्चविशेषणविशिष्टा सत्ता कि निरङ्क शा, निःप्रतिपक्षा भविष्यति । नवं सत्त्पडिवक्खा। सप्रतिपक्षवेति वात्तिकम् । तथाहि स्वद्रव्यादि चतुष्टयरूपेण सत्तायाः परद्रव्यादिचतुष्टयरूपेण सत्ता प्रतिपक्षः । सर्वपदार्थ स्थिताया: सत्ताया एकपदार्थस्थिताप्रतिपक्ष: माळ्घट: सौवर्णो घटस्ताम्रोघट इत्यादिरूपेण सविश्वरूपाया एकघटरूपा सत्ता प्रतिपक्षः। अथवा विवक्षितकघटे वृत्ताकारादिरूपे विश्वरूपाया सत्ताया विवक्षितैकगन्धादिरूपा प्रतिपक्षः। कालत्रयापेक्षयाऽनन्तपर्याया नानारूपाया सत्तायाः विवक्षितकपर्यायसत्ता प्रतिपक्ष: । उत्पादव्ययध्रौव्यरूपेण विलक्षणरूपाया: सत्ताया विवक्षितैकस्योत्पादस्य वा व्ययस्य ध्रौव्यस्य वा सत्ता प्रतिपक्षः । एकस्य महासत्ताया अवान्तरसत्ता प्रतिपक्ष इति । शद्धसंग्रहनयविवक्षायामेका महासत्ता । अशुद्धसंग्रहनयविवक्षायां वा सर्वपदार्थसविश्वरूपाद्यावान्तरसत्ताप्रतिपक्षव्याख्यानं सर्वनगमनयापेक्षया ज्ञातव्यम् । एवं नगमसंग्रहव्यवहारनयत्रयेण सत्ताव्याख्यानं योजनीयम् । अथवा एका महासत्ता शुद्धसंग्रहनयेन सर्वपदार्थाद्यावान्तरसत्ताव्यवहारनयेनेति नयद्वयव्याख्यानं कर्तव्यमिति । (दि० प्र०) 5 सत्तायाः । (ब्या० प्र०) 6 नाना । (ब्या० प्र०) 7 नाशः । (ब्या० प्र०) 8 सकलविशेषणरहिता। (ब्या० प्र०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org