SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Appendix E एकतालः स कथितो देवै... उदाहृतः । यतितालो यदा यदा सुस्थः धृतो गीतो गुणीश्वरैः ।। तथा धरणनामैव प्रसिद्धा गुणसंसदि । प्लुतस्त्रिमात्रिकः देवतः स्यात्पदे पदे ॥ आदिमध्यावसाने तु किलासः स उच्यते । द्रुतत्रयं लघुश्चैकस्ताले ..... नामनि ।। चतुर्दु तानि च लघुर्भवेद् विषमतालके । द्रुतद्वय .. प्लुतश्चेत्तालश्च षट्पदी तथा । आदौ चान्ते लघुद्वयं गुरुर्मध्ये यदा भवेत् । तदा विषमसन्धिः स्यात्तालो भवति सम्मतः ।। गुरुः स्यादादिमध्यान्ते स तालो रूपकः स्मृतः । यदि चाष्टकतालोऽपि कलाधिक्यं विलक्ष्यते ॥ पदे पदे तदा ताल: स्यादपूर्वकला ध्रुवम् । दुतद्वयं लघुश्चैको गुरुर्लघुयुगं तथा । हरगौरीति तालः स्याद् द्वितयं प्लुतमिश्रणात् । गुरुप्लुतो भवेद्यत्र स तालो झम्पकः स्मृतः ॥ गुरुत्रयं लघुद्वयं ततः प्लुतगुरुर्लघुः । चरणे चरणे झेयं स तालो यमको भवेत् ।। द्रतद्वयं लघुद्वय प्लुतो लघु... भवेत् । चरणे चरणे ज्ञेय स तालो दशकुशी भवेत् ॥ गुरुद्वय लघुप्लुतगुरुस्ततः प्लुतगुरुर्लघुः । चरणे चरणेप्येवं स ताल: कुन्दशेखरः ।। आदौ गुरुर्लघुद्वयं चरणे चरणे भवेत् । यतितालः स कथितो नृत्यभूमौ गुणीश्वरैः ॥ आदौ गुरुलघुश्चाथ चरणे चरणे भवेत् । गायकानां मनोहारी वसुतालस्तदा भवेत् ॥ ......तालः सर्वमनोहरः ॥ इति संगीतशास्त्रयोजनातिप्रमाणतः...शिवलोके महीयते । इति श्रीनारदकृतपञ्चमसंहितायां चतुर्थोऽध्यायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy