________________
३६]
[ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते कः पुनस्ता नयति ? इत्याह
पंचण्हं एगयरे, उग्गहवज्जं तु लहइ सच्चित्तं ।
आपुच्छ अट्ठपक्खे, इत्थीसत्थेण संविग्गे ॥ ३६॥ 'पंचण्हं'ति । 'पञ्चानाम्' आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकानामेकतरः संयतीनयति । तत्र च सचित्तादिकं परक्षेत्रावग्रहवर्ज स एव लभते । निर्ग्रन्थी च ज्ञानार्थ ब्रजन्ती अष्टौ पक्षानापृच्छति, अत्राचार्यमेकं पक्षमापृच्छति, यदि न विसर्जयति तत उपाध्यायं वृषभं गच्छ चैवमेव पृच्छति; संयतीवर्गेऽपि प्रवर्तिनीगणावच्छेदिकाभिषेकाशेषसाध्वोर्यथाक्रममेकैकं पक्षमापृच्छति । ताश्च स्त्रीसार्थेन समं संविग्नेन परिणतवयसा साधुना नेतव्याः ।। ३६ ॥ સાવીને કે લઈ જાય તે કહે છે :
* આચાર્ય, ઉપાધ્યાય, પ્રવર્તક, સ્થવિર અને ગણાવછેદક એ પાંચમાંથી કઈ એક સાથીઓને લઈ જાય, ત્યારે પરક્ષેત્રના અવગ્રહ સિવાયનું સચિત્ત વગેરે જે મળે તે તેનું જ થાય. તેમાં જ્ઞાન માટે જતી સાધ્વી આઠ પખવાડીયા સુધી (વડિલોને) પૂછે. તેમાં એક પખવાડિયા સુધી આચાર્યને પૂછે. તે જે રજા ન આપે તે ક્રમશઃ ઉપાધ્યાયને, વૃષભને અને ગચ્છને એમ ક્રમશઃ એક એક પખવાડીયા સુધી પૂછે. પછી સાધ્વી વર્ગમાં પણ ક્રમશઃ પ્રવર્તિનીને, ગણુવચ્છેદિકાને, અભિષેકાને અને શેષ સાધ્વીઓને એક એક પખવાડીયા સુધી પૂછે. પછી સાધ્વીઓને અન્ય સ્ત્રી સમુદાય સાથે પરિણતવયવાળા સંવિગ્ન સાધુએ લઈ જવી. ૩૬] एवं तावत्केवलोपसम्पदर्थ गणान्तरसङ्क्रमणमुक्तम् । अथ संभोगार्थ तदुच्यते
संभोगपच्चयं पि हु, संकमणं होइ कारणतिएणं ।
मुत्तत्थदाणकिरिया, सीअणओ इत्थ चउभंगो ॥ ३७ ॥ 'संभोगपञ्चयं पि हु'त्ति । सम्भोगः-एकमण्डल्यां समुद्देशनादिरूपस्तत्प्रत्ययमपि-तन्निमित्तमपि 'सङ्क्रमणं' गणान्तरगमनं 'कारणत्रयेण' ज्ञानदर्शनचारित्रलक्षणेन भवति, तत्र ज्ञानार्थ दर्शनार्थ वा यस्योपसम्पदं प्रतिपन्नस्तस्मिन् सूत्रार्थदानादौ सीदति गणान्तरसङ्क्रमणं भवति, विधिश्च तत्र पूर्वोक्त एव । चारित्रार्थ तु यस्योपसम्पदं गृहीतवांस्तस्य चरणकरणक्रियायां सीदन्त्याम्, अत्र चतुर्भङ्गो भवति-गच्छः सीदति नाचार्यः १, आचार्यः सीदति न गच्छः २, गच्छोऽप्याचार्योऽपि सीदति ३, न गच्छो नाप्याचार्यः ४ इति । अत्र प्रथमभङ्ग गच्छे सीदति गुरुणा स्वयं वा नोदना कर्तव्या, कथं गच्छः सीदेत् ? इति चेदुच्यते-साधवः प्रत्युपेक्षणां काले न कुर्वन्ति, न्यूनातिरिक्तादिदोषैर्वा विपर्यासेन प्रत्युपेक्षन्ते, गुरुग्लानादीनां वा न प्रत्युपेक्षन्ते, निष्कारणं दिवा त्वग् वर्त्तयन्ति, दण्डकं निक्षिपन्त आददतो वा न प्रत्युपेक्षन्ते न वा प्रमार्जयन्ति, दुष्प्रेक्षितं वा कुर्वन्ति, यथार्ह विनयं न प्रयुञ्जते, शय्यातरपिण्डं भुञ्जते, उद्गमाद्यशुद्धं गृह्णन्ति, एवमादिकारणैर्गच्छः सीदेदिति । द्वितीयभङ्गे सीदन्तमाचार्य स्वयं वा * આચાર્ય આદિનું વર્ણન પાંચમા પરિશિષ્ટમાં કરવામાં આવ્યું છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org