________________
anonerna
AAR
२८)
[ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते दिसमणुदिसं वत्ति । 'इत एव' सम्बन्धस्य स्थिरप्रीतिहेतुतया गुणहेतुत्वादेव एकः पक्षः प्रव्रज्यया श्रुतेन चास्यास्तीत्येकपाक्षिको भिक्षुः 'दिशम्' आचार्यत्वलक्षणाम् 'अनुदिशं च' उपाध्यायत्वलक्षणाम् 'इत्वरां' कियत्कालभाविनीं 'यावत्कथिकी च' यावत्कालभाविनी धारयितुं योग्यो निर्दिष्टः, यदुक्तं व्यवहारे द्वितीयोदेशके--"एगपक्खिअस्स भिक्खुस्स कप्पति इत्तरिअं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा, जहा वा तस्स गणस्स पत्तिअं सिय" त्ति, अस्यार्थः--एकपाक्षिकस्य भिक्षोः कल्पते 'इत्वरां' कियत्कालभाविनीमुपलक्षणाद् यावत्कथिकी च दिशमनुदिशं वोद्देष्टुं वा धारयितुं वा, यथा वा तस्य गणस्य प्रीतिक स्यात् तथा दिशमनुदिशं वोदिशेत् , किमुक्तं भवति ?--भिन्नपाक्षिकमप्य पवादपदेन स्वगणप्रीत्याss चार्यादिपदाध्यारोपितं कुर्यादिति । सापेक्षः खल्वाचार्यों जीवन्नेवाचार्य स्थापयति, यथा कालगतेऽपि तत्र गच्छो न सीदति; गणधरपदप्रायोग्याभावे प्रमादतो वाऽस्थापित एवाचार्ये कालगते इत्वर आचार्य उपाध्यायो वा स्थाप्यते, गच्छबृहत्तराणां च प्रकाश्यते--यावत्तत्र मूलाचार्यपदे मूलोपाध्यायपदे वाऽन्यो न स्थापितो भवति तावदेष युष्माकमाचार्य उपाध्यायो वा प्रवर्तक इति, तदुक्तम्- "गणधरपाउग्गासइ, पमायअष्ठाविए व कालगए । थेराण पगासंती, जावऽन्नो न ठाविओ गच्छे ॥ १॥" त्ति । तस्य च द्विविधस्याप्येकपाक्षिकस्य दिग्बन्धः कर्तव्यः । तत्र प्रव्रज्याश्रुताभ्यां चत्वारो भङ्गा भवन्ति, एवं कुलस्य गणस्य सङ्घस्य च श्रुतेन सार्द्ध भङ्गा द्रष्टव्याः । तत्र प्रव्रज्यां कुलं गणं सङ्घ वाऽधिकृत्य प्रथमभङ्गवर्ती इत्वरो यावत्कथिको वा स्थापनीयः, तदभावे तृतीयभङ्गवर्ती । यदि पुनर्द्वितीयभङ्गवर्त्तिनं चतुर्थभङ्गवर्त्तिनं वा स्थापयति तदा स्थापयितुश्चत्वारो गुरुकाः आज्ञाभङ्गानवस्थामिथ्यात्वानि, विराधना च गणभेदरूपा भवति । तथाहि-श्रुतानेकपाक्षिकेत्वराचार्यस्थापने मोहरोगान्यतरचिकित्सा प्रदीर्घकालं कृत्वा समागतेन शङ्कितसूत्रार्थः पृष्टः, तस्य भिन्नवाचनाकत्वादेव न लभ्यते, अभिनवग्रहणमपि गच्छसाधूनामत एव न भवतीति गच्छान्तरोपसम्पत्तौ प्रश्नहेतोर्गणभेदः स्यात् । यावत्कथिक स्यापि ताशस्य स्थापनेऽयमेव दोषो भावनीयः । अथवा श्रुतानेकपाक्षिकोऽल्पश्रुतोऽप्युच्यते, स च पृष्टः सन्न तमालापकं ददातीति गणान्तरे गत्वा पृच्छायां गच्छान्तरवर्तिन आचार्यास्तेनोत्पादितं सचित्तादिकं गृह्णन्ति, अगीतार्थानां न किञ्चिदाभाव्यमिति वचनात् । प्रव्रज्याऽनेकपक्षस्य च द्विविधस्यापि स्थापने गच्छसाधूनां तस्य च मिथो बहिर्भावाध्यवसाये बहुकालेनापि परकीयत्वानिवृत्त्यध्यवसायाकलहो गच्छभेदश्च भवति । अन्यतरचिकित्सादिकारणे च तृतीयभगवर्त्यपि, तदभावे द्वितीयभगवर्ती, तदभावे च चतुर्थभङ्गवर्त्यपि प्रकृत्या मृदुः समस्तगणसम्मतश्च स्थापनीय इति ॥ ३० ॥
આ જ વિષયને શાસ્ત્રની સાક્ષીથી દઢ કરે છે ?
એમ સંબંધ સ્થિર પ્રીતિને હેતુ હેવાથી લાભનું કારણ હોવાથી જ પ્રવ્રજ્યાથી અને શતથી એકપાક્ષિક (નજીકના) સાધુને ઈવર અને યાત્મથિક આચાર્યપદ રૂ૫ દિશાને અને ઉપાધ્યાયપદ રૂપ અનુદિશાને ધારણ કરવાને યોગ્ય કહ્યું છે, અર્થાત્ આચાર્યપદ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org