________________
wwarranwww
२०८ ]
[ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते 'सकसाए'त्ति । 'सकषाये' कषायकुशीले चत्वारो वा कषाया भवेयुर्यावदुपशमश्रेण्यां क्षपकश्रेण्यां वा नान्यतमविच्छेदः, सज्वलनक्रोधे पुनरुपशान्ते क्षीणे वा त्रयः, माने विगते द्वौ वा, मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानक एकक एव लोभः । निग्रन्थः क्षीणकषायो वोपशान्तापायो वा । स्नातकस्तु तेषां कषायाणां क्षय एव भवति ॥९९।।
ઉપયોગદ્વાર કહ્યું, હવે કષાયદ્વાર કહે છે:
જેનાથી કષને એટલે સંસારનો આય એટલે લાભ થાય તે કષાય. તેના ક્રોધાદિ ચાર પ્રકારે પ્રસિદ્ધ છે. પુલાક, બકુશ અને પ્રતિસેવનાકુશીલમાં ચારે કષા હોય છે. [૮]
કષાયકુશીલમાં જ્યાં સુધી ઉપશમ શ્રેણિમાં કે ક્ષપક શ્રેણિમાં કઈ પણ કષાયને વિચ્છેદ ન થાય ત્યાં સુધી ચારે કષાય હેય. (તે પછી શ્રેણિમાં નવ ગુણસ્થાનકે) સંજવલન ક્રોધને ઉપશમ કે ક્ષય થતાં ત્રણ, માનને ક્ષય કે ઉપશમ થાય ત્યારે છે, અને માયાનો ક્ષય કે ઉપશમ થાય ત્યારે સૂઢમસં૫રાય ગુણસ્થાનકે એક જ લોભ રહે. નિર્ચ થના કષાયો ક્ષીણ કે ઉપશાન્ત થયા હોય, અને સ્નાતક તે કષાયોને સંપૂર્ણ ક્ષય થયા પછી જ સ્નાતક બને છે. [૯] उक्तं कषायद्वारम् । अथ लेण्याद्वारमाह--
लेसा किण्हाईआ, अंततिए तत्थ होइ आइतियं ।
सकसाओ छसु मुक्का, णियंठि पहाए परमसुक्का ॥ १०० ॥ 'लेस'त्ति । लेश्या कृष्णादिका षडविधा द्रव्यरूपा भावरूपा च । तत्र भावरूपा विशुद्धाऽविशुद्धा च । विशुद्धा कषायाणामुपशमारक्षयाच्च जायमाना शुक्ला, क्षयोपशमाच्च तैजसपद्मशुक्लास्तिस्रः । अविशुद्धाश्च रागद्वेषमय्यस्तिस्रः कृष्णनीलकापोताख्या औदयिक्यः, एतन्निमित्तभूता च कर्मद्रव्यलेश्याऽपि षड्विधैव कृष्णादिकसञ्ज्ञा । तत्र शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेश्येत्येके, यतो योगपरिणामाभावेऽयोगिनो लेश्याभाव इति योगपरिणामो लेश्या, स च योगः शरीरनामकर्मपरिणतिविशेष इति । अन्ये त्वाहुः-सामान्यतः कर्मद्रव्याण्येव द्रव्यलेश्याः, कर्मनिष्यन्दरूपत्वाल्लेश्यानां कर्मस्थितिहेतुत्वात् ; योगपरिणामरूपत्वे योगानां प्रकृतिप्रदेशबन्धहेतुत्वेन तदनुपपतेः। न च कर्मनिष्यन्दरूपत्वे लेश्यानां समुच्छिन्नक्रियशुक्लध्यानदशायामपि कर्मचतुष्टयसद्भावेन लेश्यासद्भावापत्तिः, निष्यन्दवतो निष्यन्दधौव्याभावात् कदाचिन्निष्यन्दवत्स्वपि वस्तुषु तथाविधावस्थायां तदभावदर्शनात् । अपरे त्वाहुः-कार्मणशरीरवत्पृथगेव कर्माष्टकारकर्मवर्गणानिष्पन्नानि कर्मलेश्याद्रव्याणीति प्रासङ्गिको विवेकः । अथ प्रकृतं प्रस्तुमः- तत्र' षट्सु लेश्यासु ' आदित्रिक' पुलाकबकुशप्रतिसेवाकुशीललक्षणम् 'अन्त्यत्रिके' तैजसपद्मशुक्ललेश्यालक्षणे भवति, तदुक्तम्"पुलाए णं भंते ! किं सलेसे होज्जा अलेसे होज्जा ? गोयमा ! सलेसे हुज्जा णो अलेसे हुज्जा । जदि सलेस्से हुज्जा से णं भते ! कतिसु लेसासु हुज्जा ? गोअमा ! तिसु विसुद्धलेसासु होज्जा, तंजहा-तेउपम्हसुक्कलेसाए । एवं बउसे वि, एवं पडिसेवणाकुसीले वि"त्ति । 'सकषायः कषायकुशीलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org