SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०२ ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते ६ इति । तथाहि-असद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवान दश सहस्राणि १००००, तस्य सर्वजीवानन्तकेन शतपरिमाणतया कल्पितेन भागे हृते शतं लब्धम् १००, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि,९००, पूर्वभागहारलब्धशतस्य १०० तत्र प्रक्षेपे दश सहस्राणि जायन्ते, ततोऽसौ द्वितीयपुलाकः सर्वजीवानन्तभागहारलब्धेन शतेन हीन इत्यनन्तभागहीनः १ । पूर्वोक्तपर्यायराशेर्दशसहस्रमानस्य लोकाकाशप्रदेशपरिमाणेनासंख्येयकेन कल्पनया पश्चाशत्प्रमाणेन ' भागे हृते लब्धे द्वे शते, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राण्यष्टौ शतानि:०००, पूर्वभागलब्धायां द्विशत्यो तत्र प्रक्षिप्तायां दश सहस्राणि भवन्तीत्यतोऽसौ द्वितीयपुलाको लोकाकाशप्रदेशपरिमाणासङ्ख्येयभागहारलब्धेन शतद्वयेन हीन इत्यसङ्ख्येयभागहीनः २ । तथा पूर्वकल्पितराशेर्दशसहस्रमितस्यो कृष्ट सङ्ख्येयकेन कल्पनया दशकपरिमाणेन भागे हृते लब्धं सहस्रम् , द्वितीयप्रतियोगिपुलाकचरणपर्यवान नव सहस्राणि ९०००, पूर्वभागलब्धे च सहस्र तत्र प्रक्षिप्ते दश सहस्राणि भवन्ति, ततोऽसावुत्कृष्टसङ्ख्येयभागहारलब्धेन सहस्रेण हीन इति सङ्ख्येयभागहीनः । ३ । तथैकस्य पुलाकस्य चरणपर्यवानं सहस्रदशकं कल्पितम् , द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं सहस्रम् , ततश्चोत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः सहस्रो राशिर्जायते दश सहस्राणि, स च तेनोत्कृष्टसस्येयकेन कल्पन या दशपरिमाणेन गुणकारेण हीनोऽनभ्यस्त इति सङ्ख्येयगुणहीनः ४ । तथैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया दश सहस्राणि, द्विनीयप्रतियोगिपुलाकचरणपर्यवानं वे शते, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दश सहस्राणि, स च तेन लोकाकाशप्रदेशप्रमाणासङ्ख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण हीनोऽनभ्यस्त इत्यसङ्ख्येयगुणहीनः ५ । तथैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकम् , द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतम् , ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि, स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमोणेन गुणकारेण हीनोऽनभ्यस्त इत्यनन्तगुणहीनः ६ । एवमधिकषटस्थानकशब्दार्थोऽप्येभिर्भागहारगुणकाराख्येयः, तथाहि-एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवाग्रम् , तदन्यस्य नव शताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाधिकः १ । तथा यस्य नव सहस्राण्यष्टौ शतानि चरणपर्यवाग्रं तस्मात्प्रथमोऽसङ्ख्येयभागाधिकः २ । तथा यस्य नव सहस्राणि चरणपर्यवाग्रं तस्मात्प्रथमः सङ्ख्येयभागाधिकः ३ । तथा यस्य चरणपयेवाग्रं सहस्रमानं तदपेक्षया प्रथमः सख्येयगुणाधिकः ४ । तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्ख्येयगुणाधिकः ५ । तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षया प्रथमोऽनन्तगुणाधिकः ६ इति ॥ 'परस्थाने' विजातीये प्रतियोगिनि विचार्यमाणे 'कषायिणः' कषायकुशीलस्यापेक्षया 'एवं' पुलाकवदेव-तुल्यो हीनोऽधिको वा षट्स्थानपतितः, कषायकुशीलस्थानानामादौ पुलाकस्थानसमधारया प्रवृत्तानामुपरिष्टात्तत्परित्यागेनानिग्रन्थ प्रारम्भं यावत्प्रवृद्धेः प्रदर्शितत्वादिति ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001508
Book TitleGurutattvavinischay Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1987
Total Pages294
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Principle, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy