________________
गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] पासे सभी से तवानी पासे २हे. (८) प्रेषित :- सायाये श्रुत मा माट भने तमारी પાસે મોકલ્યો છે એમ, જે આચાર્યની શ્રુત ભણવા ધારણ કરી છે તે આચાર્યને કહે. આ આઠ અતિચારો છે. આચાર્યથી રજા અપાયેલે હું તમારી પાસે આવ્યો છું એમ કહે તે કહેનાર શુદ્ધ છે. તેથી પ્રાયશ્ચિત્તને પાત્ર બનતો નથી. [૭] भयादिषु पदेषु प्रायश्चित्तमाह -
पणगं च भिन्नमासो, मासो लहुओ अ हुंति, चउँगुरुआ।
मासलहुं चल हुआ चउँलहु लहुओ अ एएसुं ॥८॥ _ 'पणगं च'त्ति । आचार्याचरणां कर्कशां श्रुत्वा ज्ञात्वा वा भयेन यः प्रतिनिवर्तते तस्य पञ्चकं भवति प्रायश्चित्तम् १ । पूर्वमेव यावन्न निर्गम्यते तावच्चिन्तयितव्यम् , यस्तु निर्गतश्चिन्तयति किं करोमि व्रजामि निवर्त्त था ?, यद्वा तत्र वाऽन्यत्र वा गच्छे गच्छामीति तस्य भिन्नमासः २ । वजिकां श्रुत्वा मार्गादुद्वर्तन यः करोति अप्राप्तां वा वेलां प्रतीक्षते तस्य लघुको मासः, तथा यदि प्रचुर भुङ्क्ते तदा चतुलघु, प्रचुर भुक्त्वाऽजीर्णभयेन प्रकामं स्वपिति (तस्य) लघुमास इत्यपि द्रष्टव्यम् ३ । सङ्खड्यामप्राप्तकालप्रतीक्षणप्रभूतग्रहणयोश्चतुगुरुकाः, यञ्च तत्र हस्त सङ्घट्टनपात्रसङ्घट्टनादिनिमित्तकं तन्निष्पन्नमपि प्रायश्चित्तमित्याप द्रष्टव्यम् ४ । पिशुकादिमयान्निवर्तमानस्य मासलघु ५ । अप्रतिषेधकस्य पार्श्वे तिष्ठतश्चत्वारो लघुकाः । यश्चासावध्ययनार्थी मा मामतिक्रम्यान्यत्र गमदिति कृत्वा तस्याकर्षणार्थं शिष्यान् प्रतीच्छकांश्च व्यापारयति, यत्र पथि ग्रामे स भिक्षां करिष्यति मध्येन वा समेष्यति यस्यां वा वसतौ स्थास्यति तेषु स्थानेषु गत्वा यूयममिलापशुद्ध परिवर्तयन्तस्तिष्ठत, यदा स आगतो भवति तदा यद्यसौ पृच्छेत् केन कारणेन यूयमिहागताः, ततो भवद्भिवक्तव्यम्-अस्माकं वाचनाचार्या अभिलापशुद्धं पाठयन्ति, यामिलापः कथञ्चिदन्यथा क्रियते ततो महदप्रीतिकं ते कुर्वन्ति भणन्ति च-अत्रोपाश्रये बहुजनशब्दव्याकुलतया नाभिलापशुद्धयविनाश इति तदादेशेन वयमत्र विजने परिवर्त्तयाम इति तस्यैवमाकर्षणं कुर्वतश्चत्वारो लघुकाः । अथ तेनाध्वन्यागच्छता शैक्षो लब्धस्तद्ग्रहणा) यदि तमाकर्षति ततश्चतुर्गुरुका इत्यपि द्रष्टव्यम् ६ । यस्य पर्षदि साधवः केचित्प्रावृताः केचिदप्रावृताः केचित्फेनादिना घृष्टजङ्घाः केचित्तलादिना मृष्टशरीराः केचिल्लोचमुण्डाः केचिक्षुरमुण्डा एवं विविधवेषधरास्तिष्ठन्ति, न च यस्तेषु कश्चिद् वारयति स पर्षद्वान् , तस्य गच्छे प्रवेशं कुर्वतश्चतुर्लघु, यदि च सचित्तेन शैक्षेण साई प्रविशति ततश्चतुर्गुरव आज्ञादयश्च दोषाः । अथाचित्तेन वस्त्रादिना सह प्रविशति तत उपधिनिष्पन्न मिश्रे संयोगप्रायश्चित्तम् , तथा सचित्ताचित्तं ददतो गृह्णतश्चैवमेव प्रायश्चित्तमिति दृश्यम् ७ । अमुकश्रुतार्थनिमित्तं गुरुभिर्युष्मदन्तिके प्रेपितोऽहमिति भणतश्च लघुको मासः ८ । एतेष्वतिचारेषु क्रमादेतानि प्रायश्चित्तानि ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org