________________
गुरुतत्त्वविनिश्चये तृतीयोल्लासः नन्धेते मेदा न पुलाकादिभेदवत् परस्परमतिरिच्यन्त इत्यत आह
इत्थ दसाभेयकओ, भेओ केण वि ण हंदि णिहिट्ठो ।
तो सदणयावेक्खो, भेओ त्ति भणंति णिउणमई ॥ ४५ ॥ 'इत्थ'त्ति । 'अत्र' स्नातकभेदाभिधानाधिकारे दशाभेदकृतो भेदो न केनापि व्याख्यात्रा हन्दि निर्दिष्टः, तत् शब्दनयापेक्षो भेद इति भणन्ति 'निपुणमतयः' अभयदेवसूरयः, तथा च भगवतीवृत्ति:-"इह चावस्थाभेदेन भेदो न केनचिद् वृत्तिकृतेहान्यत्र च ग्रन्ये व्याख्यातस्ततश्चैव संभावयामः-शब्दनयापेक्षया एतेषां भेदो भावनीयः शक्रपुरन्दरादिवत्" इति ॥४५॥
આ ભેદ પુલાક આદિની જેમ પરસ્પર જુદા પડતા નથી એ શંકા વિષે કહે છે -
સ્નાતકભેદકથનના અધિકારમાં દશાના=અવસ્થાના ભેદથી કરાયેલ ભેદ કોઈપણ વ્યાખ્યાનકારે જણાવ્યા નથી. આથી આ ભેદો શબ્દનયની અપેક્ષાઓ છે એમ નિપુણમતિ
શ્રી અભયદેવ સૂરિ કહે છે. ભગવતીની ટીકા આ પ્રમાણે છે –“કઈ ટીકાકારે અહીં (ભગવતીમાં) અને અન્યગ્રંથમાં સ્નાતકભેદથનના અધિકારમાં અવસ્થાના ભેદથી ભેદની વ્યાખ્યા
તેથી અમે એવી સંભાવના કરીએ છીએ કે આ પાંચ ભેદમાં તાત્ત્વિક ભેદ નથી, માત્ર શક, પુરંદર આદિની જેમ શબ્દનયની અપેક્ષાએ ભેદ વિચારવું જોઈએ.” [૪૫] अत्रैव विशेषमाह
इह भेओ पजाओ, ईहापोहाइवयणओ नेओ।
इट्ठा वक्खा जं तत्तभेअपज्जायो तिविहा ॥ ४६॥ ___ 'इह भेओ'त्ति । 'इह' स्नातकभेदाधिकारे शब्दनयापेक्षया यो भेद उच्यते स पर्यायो ज्ञेयः । किंवत् ? इत्याह-ईहापोहादिवचनवत् , यथा खलु-"इहा अपोह वीमंसा, मग्गणा य गधेसमा । सन्ना सई मई पन्ना, सव्वं आभिणिबोहिअं ॥१॥" इत्यत्रावश्यकप्रदेशे मतिज्ञाननिरूपणे तत्त्वभेदनिरूपणानन्तरं मतिज्ञानसामान्यविशेषपर्यायाणामभिधानम् , तथा चास्या वृत्तिः"ईहा गाहाव्याख्या-'ईहि' चेष्टायाम् , ईहनमीहा-सतामर्थानामन्वयिनां व्यतिरेकिणां च पर्यालोचनेति यावत् । अपोहनमपोहः-निश्चय इत्यर्थः, विमर्शनं विमर्शः, अवायात्पूर्व ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्मा अत्र घटन्त इति सप्रत्ययो विमर्शः । तथाऽन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकभर्मालोचना गवेषणा, तथा सज्ञानं सज्ञा-व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृति:-पूर्वानुभतार्थालम्बनप्रत्यय इति, मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरिति । तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदमाभिनिबोधिकं मतिज्ञानमित्यर्थः। एवं किञ्चिद्भेदाद् भेदः प्रदर्शितः, तत्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति ॥' अत्र हि तत्त्वतस्त्वित्यनेन सामान्यविशेषसाधारण्येन पर्यायाभिधानमुक्तम् , समानप्रवृत्तिनिमित्तकनानाशब्दानां पर्यायत्वादिति । तथा स्नातकनिरूपणस्थलेऽपि प्रकृते, अर्थात् स्नातकतत्त्वं सयोग्ययोगिभावेन तभेदं चाभिधायाऽच्छवित्वादिभेदाभिधानं तत्पर्यायप्रदर्शनपरमित्यर्थः । मनु पर्यायाभिधानमपि किमर्थम् १ इत्यत आह-'यत्' यस्माद् व्याख्या तत्त्वभेदपर्यायत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org