SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ धरणेन्द्रपद्मावतीसंपूजिताय ॐ ही श्री ___ श्रीशंखेश्वरपार्श्वनाथाय नमः श्रीदान-प्रेम-हीरसूरिगुरुभ्यो नमः ऐं नमः ॥ महोपाध्याय-श्रीमद-यशोविजयगणिविरचितस्वोपज्ञवृत्तियुतः गरुतत्त्वविनिश्चयः । द्वितीयो विभागः, तृतीयोल्लासः । द्वितीयोल्लासे द्वारत्रिकेण व्यवहारविवेकः कृतः । अयं च सद्गुरोरत्यागेन कुगुरुवर्जनेन च स्थेमानमावहतीत्येतदर्थप्रतिपादकस्तृतीयोल्लास आरभ्यते, तत्रेयमाद्यगाथा इहपरलोएसु हिओ, सुव्यवहारी गुरू ण मोत्तव्यो। अणुसिटिमुवालंभं, उवग्गहं चेव जो कुणइ ॥१॥ 'इहपरलोएसु हिओ'त्ति । इह गुरुविषयाश्चत्वारो भङ्गा भवन्ति, तथाहि इहलोकहितो नामैको न परलोकहितः १, परलोकहितो नामको नेहलोकहितः २, एक इहलोकहितोऽपि परलोकहितोऽपि ३, एको नेहलोकहितो नाऽपि परलोकहित इति ४ । तत्र यो वस्त्रपात्रभक्तपानादिकं साधूनां पूरयति न पुनः संयमे सीदतः सारयति स इहलोके हितो न परलोके १ । यः पुनः संयमयोगेषु प्रमाद्यतां सारणां करोति न च वस्त्रपात्रभक्तपानादिकं प्रयच्छति स स्फुटभाषी परलोके हितो नेहलोके २ । यो वस्त्रपात्रभक्तपानादिकं समग्रमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके परलोके च हितः ३ । यस्तु न वस्त्रपात्रादिकं साधूनां पूरयति न च संयमयोगेषु सीदतः सारयति स नेहलोके हितो नापि परलोके ४ । तत्र योऽनुशिष्टिमुपालम्भमुपग्रहं च करोति स इहलोकपरलोकयो हितः 'सुव्यवहारी' समीची नव्यवहारकारी गुरुभवजलधियानपात्रमिति न कदाऽपि मोक्षार्थिना मोक्तव्यः, किन्तु कुलवध्वा दिदृष्टान्तस्तस्यैवाश्रयणं कर्त्तव्यमित्यर्थः । तत्रानुशिष्टिः स्तुतिरित्येकार्थी शब्दौ, यथा-सुलभदण्डे जीवलोके मैवं मतिं कुर्याः, यथाऽहमाचार्येण प्रायश्चित्तदानतो दण्डितोऽस्मीति दुरन्तभवदण्डनिवारकः खल्वयं प्रायश्चित्तदण्ड इति । किञ्चानाचारमलिनस्यात्मनः प्रायश्चित्तजलेन निर्मलीकरणान्न युक्ता दण्डबुद्धिरात्मनि परिभावयितुम् , किन्तूपकृतोऽहमनुपकृतपरहितकारिभिराचारिति विचारणव समीचीनतामश्चतीति । उपालम्भः-दोषव्यञ्जकं वचनम् , यथा-वयैव स्वयं कृतमिदं प्रायश्चित्तरथानं तस्मान्न कस्याप्युपर्यन्यथाभावः कल्पनीयः, न गु.१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001508
Book TitleGurutattvavinischay Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1987
Total Pages294
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Principle, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy