SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] 'सुदठुयति । सुतरां नाशयन्त्यात्मानं सन्मार्गात् , के ? ये चारित्रात् प्रकर्षण भ्रष्टाःअपेताः सन्तः 'गुरुजन' गुणस्थसाधुवर्ग 'वन्दयन्ति' कृतिकर्म कारयन्ति । किंभूतं गुरुजनम् ? शोभनाः श्रमणा यस्मिन् स सुश्रमणस्तम् , अनुस्वारलोपोऽत्र द्रष्टव्यः, तथा यथोक्त क्रियाकलापं कर्तुं शीलमस्येति यथोक्तकारी तं चेति गाथार्थः ॥१२३।। ચારિત્રથી ભ્રષ્ટ બનેલા જે પાસસ્થાદિ, સુસાધુઓવાળા, યક્ત ક્રિયાસમૂહને કરનારા અને ગુણમાં રહેલા (ગુણી) એવા સાધુસમુદાયને વંદન કરાવે છે, તેઓ આત્માને સન્માર્ગથી સારી રીતે પતિત કરે છે. [૧૨૩] एतेषामभ्युत्थानादौ प्रायश्चित्तमाह अहछदस्सन्भुट्ठाणंजलि करणेसु हुँति चउगुरुआ। अण्णेसुं चउलहुआ, एवं दाणाइसु वि णेयं ॥१२४॥ 'अहछंदस्स'त्ति । यथाछन्दस्याभ्युत्थानाञ्जलिकरणयोर्भवन्ति प्रत्येकं चत्वारो गुरुकाः प्रायश्चित्तम् । तत्राभ्युत्थानं षोढा-अभिमुखोत्थानम् १, आसनोपढौकनम् २, किं करोमीति भणनम् ३, धर्मच्युतस्य पुनर्धर्म स्थापनारूपमभ्यासकरणम् ४, अभेदरूपाऽविभक्तिः ५, एतत्पश्चपदरूपः संयोगश्च ६ इति । तत्राभिमुखोत्थानादिपञ्चके कृतेऽभ्यासकरणे पुनः सामर्थ्य सति अकृते प्रायश्चित्तम् । अञ्जलिकरणमपि षोढा-पञ्चविंशत्यावश्यकयुक्तं वन्दनम् १, शिरसा प्रणामकरणम् २, एकस्य द्वयोर्वा हस्तयोर्योजनम् ३, बहुमानरसभरेण सरभसं 'नमो खमासमणाणं' इति भणनम् ४, निषद्याकरणम् ५, एतेषां पदानां योगश्च ६, एतेषु सर्वेष्वपि कृतेषु प्रायश्चित्तम् । 'अन्येषु' पार्श्वस्थादिषु नवसु गृहग्थसहितेषु कृतिकर्माञ्जलिकरणयोः प्रत्येक चतुर्लघुकाः प्रायश्चित्तम् । एवं दानादिष्वपि ज्ञेयम् , तथाहि-पार्श्वस्थादीनामशनादिदाने तेभ्यो वाऽशनादिग्रहणे चतुर्लघु, यतः पार्श्वस्थादय उद्गमादिदोषेषु वर्तन्तेऽतस्तेषां दाने तेऽतुमोदिता भवन्ति, तेषां च हस्ताद् ग्रहणे उद्गमादिदोषाः प्रतिसेविता भवन्तीति, उक्तञ्च-पासत्थोसन्नाणं, कुसीलसंसत्तनीअवासीणं । जे भिक्खू असणाई, दिज पडिच्छिन्ज वाऽऽणाई ॥१॥ उग्गमदोसाईआ, पासस्थाई जओ न वज्जति । तम्हा उ तव्विसुद्धिं, इच्छंतो ते विवजिजा ॥२॥ सूइज्जइ अणुरागो, दाणेणं पीइओ अ गहणं तु । संसगाया य दोसा, गुणा य इय ते परिहरिज्जा ॥३॥" पावस्थादीनां वस्त्रदाने तेषां हस्तात्प्रातिहारिकग्रहणे च चतुर्लघुकमेव । पावस्थादीनां वाचनादाने तेभ्यो वा वाचनाग्रहणे सूत्रे चतुर्लघु, अर्थ चतुर्गुरु । यथाछन्दानां सूत्रे चतुर्गुरु, अर्थ षड्लघु । अनेकदिनवाचनासु पुनः"सतरत्तं तवो होइ” इत्यादिक्रमेण प्रायश्चित्तवृद्धिरुपढौकते । पार्श्वस्थादिषु वाचनादानादानयोर्वन्दनकदुष्टसंसर्गादयोऽनेके दोषा इति ॥१२४॥ તેવાઓનું અભ્યસ્થાન આદિ (વિનય) કરવામાં પ્રાયશ્ચિત્ત કહે છે - યથાઈદને અભ્યસ્થાન અને અંજલિ કરવામાં પ્રત્યેકમાં ચતુણું પ્રાયશ્ચિત્ત છે. આ मत्युत्थान ७ ४१२ छे. (१) सामे आवे त्यारे । यः (२) मासन मा५'. (3) તમારું શું કાર્ય કરું? એમ પૂછવું. (૪) ધર્મથી પતિતને ફરી ધર્મમાં જોડવાને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001508
Book TitleGurutattvavinischay Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1987
Total Pages294
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Principle, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy