________________
३६०
[ स्योपशवृत्ति-गुर्जरभाषाभावानुवादयुते मा मात पडai or 'दोषविहवाणुरूवो' मेरेथा (10 3१८) ४ थी छे. माथा मनतरोत योय छे. [3२४] संप्रत्याचार्योपाध्यायभिक्षूणामेव चिकित्साविषये विधिनानात्वं दर्शयति
तिविहे तेगिच्छम्मि य , उज्जुअ बाउलणसाहणा चेव ।
पण्णवणमणिच्छंते, दिर्सेतो भडिपोएहिं ॥३२५॥ 'तिविहे' त्ति । 'त्रिविधे' 'त्रिप्रकारे आचार्योपाध्यायभिक्षुलक्षणे चिकित्स्यमाने गीतार्थ इति गम्यते 'उज्जुअ'त्ति 'ऋजुकं' स्फुटमेव 'व्यापृतसाधना' 'व्यापृतक्रियाकथनं कर्त्तव्यम् । इयमत्र भावना-आचार्याणामुपाध्यायानां गीतार्थानां च भिक्षणां विचिकित्स्यमानानां यदि शुद्धं प्रासुकमेषणीयं लभ्यते तदा न तत्र विचारः । अथ शुद्धं न लभ्यतेऽवश्यं च चिकित्सा कर्तव्या तदाऽशुद्धमप्यानीय दीयते, तथाभूते च दीयमाने स्फुटमेव निवेद्यते इदमेवम्भूतमिति, तेषां गीतार्थत्वेनापरिणामातिपरिणामदोषासम्सवात् । अगीतार्थभिक्षोः पुनः शुद्धाऽलाभे चिकित्सामशुद्धेन कुर्वन्तो मुनिवृषभा यतनया कुर्वन्ति न चाशुद्ध कथयन्ति, यदि पुनः कथयन्त्ययतनया वा कुर्वन्ति तदा सोऽपरिणामत्वादनिच्छन् यदनागाढादिपरितापनमनुभवति तन्निमित्त प्रायश्चित्तमापद्यते तेषां मुनिवृषभाणाम् , यद्वाऽतिपरिणामतया सोऽतिप्रसङ्ग कुर्यात् , तस्मान्न कथनीयं नाप्ययतना कर्तव्या, कथमपि तत्परिज्ञायानिच्छति चागीतार्थभिक्षौ प्रज्ञापना कर्तव्या, यथा--ग्लानत्वे यदकल्पिकमपि यतनया सेव्यते तत्र शुद्धो ग्लानः, यतनया प्रवृत्तेः अशुद्धग्रहणाद्रल्पीयसो दोषस्य भावात् , तस्यापि प्रायश्चित्तेन पश्चाच्छोधयिष्यमाणत्वात् , उत्तरकालं प्रभूतसंयमलाभहेतुत्वेन तस्याश्रयणीयत्वादिति । इयं च प्रज्ञापना तरुणे क्रियते, बालस्तु बालत्वाद् यथामणितं करोत्येव । यस्तु वृद्धस्तरुणो वाऽतिरोगग्रस्तोऽचिकित्सनीयः स प्रोत्साह्यते--कुरु महानुभाव ! भक्तत्याख्या. नमेतज्जिनवचनाधिगमफलमिति । यदि च नेच्छति तदा 'भण्डीपोताभ्यां' गन्त्रीप्रवहणाभ्यां दृष्टान्तः करणीयः, स चायम्-या एकदेशे क्वचिददृढा भण्डी सा शीलाप्यते, यतः सा शीलिता सती कार्य करोति, या तु संस्थापिताऽपि कार्यकरणाक्षमा न तो शीलयन्ति । एवं पोतेऽपि भावनीयम् । दाष्ट्रान्तिकयोजनावियम्--यदि प्रभूतमायुः संभाव्यते प्रगुणीकृतश्च देहः संयमव्यापारेषु समर्थ इति ज्ञायते तदा संयमवृद्धये युक्ता चिकित्साऽन्यथा तु निष्फलेति ॥३२५।।
હવે આચાર્ય–ઉપાધ્યાય-સાધુઓની ચિકિત્સા સંબંધી વિધિની ભિન્નતા બતાવે છે:
આચાર્ય–ઉપાધ્યાય અને ગીતાર્થ સાધુની ચિકિત્સા (-રોગને દૂર કરવાનો ઉપાય) કરવાની હોય ત્યારે બનેલ વિગતનું સ્પષ્ટ જ કથન કરવું જોઈએ. ભાવાર્થ-આચાર્યો, ઉપાધ્યાય અને ગીતાર્થ સાધુઓની ચિકિત્સા કરવાની હોય ત્યારે જે શુદ્ધ પ્રાસુક એષણીય મળી જાય તે તે કઈ વિચાર કરવાનો રહેતો નથી. પણ જો શુદ્ધ ન મળે અને ચિકિત્સા અવશ્ય કરવી પડે તેમ હેય તે અશુદ્ધ પણ લાવીને આપે. તેવું આપતી વખતે ગ્લાનને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org