________________
२९० ]
[ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते यनं नाम यद्वारंवारेण परस्परं पृच्छनं तद् घोटकयोः परस्परं कण्डूयनमिवेति । अर्थात् तत्रावलिकया मण्डलिकया घोटककण्डूयनेन च सूत्रं भाषमाणे सामायिकादीनि यावदष्टाशीतिसूत्राणि उपर्युपरि बलिकानि भवन्ति । अयं भावः-एक एकस्य पार्श्व आवश्यकमधीते, स चावश्यकप्रतिपृच्छकस्य समीपे दशवकालिकमधीते तदा दशवैकालिकवाचनाचार्यस्याभवति । तथा एक एकस्य पार्श्वे दशवकालिकमधीते, दशवकालिकवाचनाचार्यः पुनर्दशवैकालिकप्रतिपृच्छकस्य समीपे उत्तराध्ययनान्यधीते उत्तराध्ययनवाचनाचार्यस्याभाव्यं क्षेत्रम् , एवं तावद् भावनीयं यावदष्टाशीतिसूत्राणीति । इयान् परमिह विशेषः-मण्डलिका तावदावलिकावदेव, सा हि पूर्वाधीते नष्टे उज्ज्वाल्यमाने धर्मकथावादशास्त्रेषज्ज्वाल्यमानेष्वधीयमानेषु वा प्रकीर्णकश्रुते वाऽधीयमाने बहुश्रुतस्यापि भवति, तथाहि-एक एकस्य पार्वे पूर्वाधीतं नष्टमावश्यकमुज्ज्वालयति, आवश्यकवाचनाचार्थः पुनस्तत्समीपे दशवैकालिकं दशवकालिकवाचनाचार्यस्याभवतीत्यादि सर्वं प्रावदेव । तथा एक एकस्य पार्श्व आवश्यकं नष्टमुज्ज्वालयति, एषोऽप्यावश्यकवाचनाचार्योऽन्यस्य समीपे दशवकालिकम् , दशवकालिकवाचनाचार्योऽप्यपरस्य समीपे उत्तराध्ययनानि, उत्तराध्ययनवाचनाचार्योऽप्यन्यस्य समीपे आचाराङ्गम् , एवं यावद्विपाकश्रुतवाचनाचार्यः पूर्वाधीतं नष्टमन्यस्य पार्श्व दृष्टिवादमुज्ज्वालयति दृष्टिवादवाचनाचार्यस्याभवति, न शेषाणाम् , आभवनस्योत्तरोत्तरसङ्क्रान्स्याऽन्तिमेऽवस्थानात् । एतच्चावलिकायामपि द्रष्टव्यम् , न चवं छिन्नाछिन्नविशेषानुपपत्तिः, व्याख्यातुरन्याभिधारणानभिधारणाभ्यां तदुपपत्तेः; इदं च छिन्नाछिन्नोपसम्पदभिप्रायेणोच्यते । अथवा छिन्नत्वं सार्वत्रिकमेकान्तनिवेशेनैव, तेन नावलिकायां परस्परमाभाव्यविशेषस्य तन्त्रोक्तस्यानुपपत्तिरिति सम्यगालोचनीयम् । तथा यस्य पार्श्व धर्मकथाशास्त्राणि वादशास्राणि वोज्ज्वालयत्यधीते वा तस्य पाठकस्याभवति न पाठ्यमानस्य । तथा वहुश्रुततरोऽपि यद्यन्यस्य समीपे प्रकीर्णश्रुतमधीते तदा तरण प्रकीर्णकश्रुतपाठकस्याभाव्यं न बहुश्रुततरस्य । किं बहुना यो यस्य समीपे पठत्युज्ज्वालयति वा तस्य सत्कमाभाव्यमितरो वाचनाचार्यों हरति । तथा घोटककण्डूयनेन परस्परं पृच्छायां यो यदा यं पृच्छति स तदा तस्य प्रतीच्छकः, इतरः प्रतीच्छयः; यावच्च यः प्रतीच्छचस्तावत्तस्याभवतीति ॥२१०।।
ભૂમિકા - ૨૧૦ મી ગાથાની ટીકાના અનુવાદ પહેલાં તેની ભૂમિકા સમજી લઈએ. જેથી અનુવાદ બરાબર સમજમાં આવી જાય. અહીં સૂત્ર અને અર્થને કહેવામાં ત્રણ પ્રકાર छ. म प्रमाणे :- (१) मासि।, (२) मसी, (3) घोट यन. २ छिन्न लेय અને એકાંતમાં જ વાચના થાય તે આવલિકા. જે અછિન્ન હોય અને સ્વસ્થાને (માંડલિના નિયત સ્થાનમાં કે અધ્યાપકના સ્થાનમાં) જ વાચના થાય તે મંડલી. જેમાં આભાવ્ય પરંપરાએ અંતિમ અધ્યાપકનું થાય તે છિન્ન. જેમાં આભાવ્ય અનંતર અધ્યાપકનું થાય તે અછિન્ન. અર્થાત્ વચ્ચે વચ્ચેના અધ્યાપકનું આભાવ્ય છેરાતાં છેદતાં કેવલ અંતિમ અધ્યાપકનું રહે તે છિન્ન, વચ્ચે કેઈ અધ્યાપકનું આભાવ્ય છેદાય નહિ તે અછિન્ન.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org