________________
गुरुतत्त्वविनिश्चये द्वितीयोल्लासः ]
[ २४३ ओसन्नचरणकरणे, सच्चव्यवहारिया दुसदहिया ।
चरणकरणं जहंतो, सञ्चव्यवहारियं पि जहे ॥११६॥ 'ओसन्न'त्ति । अवसन्ने- शिथिलतां गते चरणकरणे- व्रतश्रमणधर्मपिण्डविशुद्धिसमित्यादिरूपे यस्य तस्मिन् ‘सत्यव्यवहारिता' यथास्थितव्यवहारकारिता दुःश्रद्धेया, यतश्चरणकरणं जहत् सत्यव्यवहारितामपि जहाति ॥११६।।
પછી અસત્ય ન્યાય કરનારાઓને તિરસ્કાર પૂર્વક કહે કે, અસત્ય ન્યાય કરનારા શિથિલાચારી આપનું આ કથન સત્ય નથી. કેવળ મુગ્ધોની ગુણને વિચાર કર્યા વિના વિશ્વાસ રાખનારા લોકોની બુદ્ધિને આંધળી કરનારું છે. [૧૧૫] વ્રત, શ્રમણુધર્મ, પિંડવિશુદ્ધિ, સમિતિ આદિ ચરણ-કરણમાં જે શિથિલ બની ગયો હોય તે સત્ય ન્યાય કરે એ દુઃશ્રદ્ધય છે. કારણ કે ચરણ-કરણને છોડનાર સત્ય ન્યાય કરવાનું પણ છોડી हेछ. [११६]
जइआणेणं चत्तं, अप्पणओ नागदंसणचरितं ।
तइआ तस्स परेमुं, अणुकंपा णत्थि जीवेसु ॥११७॥ 'जइअत्ति । यदाऽनेनाऽऽत्मनः सम्बन्धि ज्ञानदर्शनचारित्रं त्यक्तं तदा तस्य परेषु जीवेष्वनुकम्पा नास्ति । यस्य ह्यात्मनो दुर्गतौ प्रपततो नाऽनुकम्पा तस्य कथं परेष्वनुकम्पा भवेत् ? न कथञ्चित् स्यात् , स्वानुकम्पार्थप्रवृत्त्यनुषङ्गलभ्यत्वात् परानुकम्पाया इति भावः ॥११७।।
भवसयसहस्सलद्धं, जिणवयणं भावओ जहंतस्स ।
जस्स ण जायं दुक्खं, तस्स ण दुक्खं परे दुहिए ॥११८॥ 'भव'त्ति । यस्य भवशतसहस्रैः कथमपि लब्धं जिनवचनं 'भावतः' परमार्थतो जहतो दुःख न जातं तस्य परस्मिन् दुःखिते कथं दुःखम् ? न कथञ्चित् , आत्मदुःखे दुःखितस्यैव परदुःखे दुःखितत्वसम्भवादिति भावः ॥११८॥
संसारविरत्तस्स उ, आणाभंगे महब्भय होइ।
गारवरसिअस्स पुणो, जिणआणाभंजणं कीला ॥११९॥ 'संसार'त्ति । 'संसारविरक्तस्य तु' संसारविरक्तस्यैव तोरेवकारार्थत्वात् , आज्ञाभङ्गे महद् भयं भवति । गारवरसिकस्य पुनर्जिनाज्ञाभञ्जनं क्रीडा, स्वरसत एव निरन्तरं तत्र प्रवृत्तः ।। ११९ ॥
जेसिं भग्गवयाणं, उम्मग्गपरूवणं णिया वित्ती । तेसिमकयपुण्णाणं, मुविसुद्धपरूवणं दूरे ॥१२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org