________________
गुरुतत्त्वविनिश्चये द्वितीयोल्लासः ]
[२३१ व्यवहारे जाते कश्चित्सूरिबहुश्रुतो बहुपरिवारश्च समागतः, स च व्यवहारो वास्तव्यसङ्घन छेत्तुं न शक्यत इति वास्तव्यसधेन त्वमेत व्यवहारं छिन्द्वीति तत्र व्यवहारे नियुक्तः स सूरिरिति गम्यम् ।।८।।
णाएण तेण छिन्नो, ववहारो सो मुओवइटेणं ।
कुलगणसंघेहि तओ, कओ पमाणं गुणड्डो त्ति ॥९०॥ ‘णाएण'त्ति । तेन' समागतेन सूरिणा श्रुतोपदिष्टेन न्यायेनाभाव्यानाभाव्यविभागेन स व्यवहारश्छिन्नस्तत एष बहुश्रुतो न किमपि श्रुतोत्तीर्ण वदतीति गुणाढ्य इति कुलगणसधैः प्रमाणं कृतः ॥९॥
तो सेविउं पवत्ता, आहारादीहि तं तु कारणिआ।
अह छिन्दिउं पवत्तो, णिस्साए सो उ ववहारं ॥९१॥ 'तो सेविउं'ति । 'ततः' कुलगणसधैस्तस्य प्रमाणीकरणात् 'त' समागतसूरिं 'कारणिकाः' विवदमानाः श्रावकसिद्धपुत्रादय आहारादिभिः सेवितुं प्रवृत्ताः । अथ स तु तैर्दीयमानान्याहारादीनि प्रतीच्छन् व्यवहारं निश्रया पक्षपातेन छेत्तुं प्रवृत्तः ॥९१।।
पञ्चत्थीहिमवगयं, छिदएँ णिस्साइ एस ववहारं ।
को अण्णो णायविऊ, हुज्ज त्ति य चिंतियं तेहिं ॥१२॥ 'पच्चत्थीहिं'ति । ततो ये आहारादिकं न दत्तवन्तस्तैः प्रत्यर्थिभिरवगतं यथा छिनत्ति निश्रया एष व्यवहारम् , कोऽन्यो न्यायविद् भवेद् ? य एनं व्यवहारमनिश्रया पारं प्रापयतीति च चिन्तितं तैः ।।९२३॥
अह अण्णया पघुटे, णायं काउं तु संघसमवाए। .
कोइ निउणो समेओ, आगंतव्वं जओऽवस्सं ॥९३॥ 'अह'त्ति । अथान्यदा सचित्तादिव्यवहारच्छेदार्थं न्यायं कर्तुं सङ्घसमवाये 'प्रघुष्टे' उद्घोषणया मेलिते तां प्रघोषणां श्रुत्वा कश्चित् 'निपुणः' सूत्रार्थतदुभयकुशलः प्राघूर्णकः समेतः, यतः समवायघोषणामाकर्ण्य धूलीधूसरैरपि पादैरवश्यमागन्तव्यम् , अन्यथा प्रायश्चित्तप्रसङ्गात् ।।९३॥
હવે માયાવી અને મૃષાવાદી કાર્યાકાર્યની સ્થિતિને કેવી રીતે હણે છે એ વિષે *प्रघट्ट हे छ :
* કોઈ અમુક વિષયના ગ્રંથના અમુક ભાગને પ્રઘટક કહેવામાં આવે છે. અહીં આ પ્રઘટ્ટકમાં જણાવેલ વિષય વ્યવહાર સૂત્રના ત્રીજા ઉદ્દેશામાં ૨૯૫ મી ગાથાથી શરૂ થાય છે. અથવા પ્રઘટ્ટક એટલે પ્રસંગ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org