________________
१९० ]
। स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते पठनीया । आसामर्थः-'प्रथमस्य कार्यस्य' दर्पिकासेवनाख्यस्य 'दशविधा' दर्पाकल्पादिदशपदगर्भितामालोचनां निशम्य नक्षत्रे 'भे' भवतां 'पीडा' पीडकत्वेनोपचाराद्विराधना, कोऽर्थः १ चन्द्रादित्यग्रहनक्षत्रतारकभेदपञ्चविधज्योतिश्चक्रमध्ये नक्षत्रभेदश्चतुर्थः, अतोऽनेन चतुर्थव्रतगोचरा विराधना सूच्यत इत्येके व्याचक्षते । अन्ये त्वाषाढाद्याः संवत्सरा इति तदाद्यदिने ज्येष्ठ पूर्णिमानन्तरप्रतिपदि संवत्सरे मूलनक्षत्रं भवति, ततः प्राधान्यादत्र नक्षत्रशब्दैन मूलं भणति तेन मूलगुणविराधनां प्राणातिपाताद्यतिचाररूपां ज्ञापयन्ति । अपरे त्वार्द्रादिषु नक्षत्रेषु सर्वेषु वृष्टेऽपि मेघे हस्तवृष्टि विना न धान्यानि विशिष्टां पुष्टिं बध्नन्ति ततो हस्तस्य प्राधान्यमिच्छन्तोऽत्र नक्षत्रध्वनिना हस्तं निर्दिशन्ति, ततो हस्तेनादत्तमात्तं हस्तकर्म वा कृतमिति तृतीयचतुर्थव्रतातिचारसूचा । एके तु नक्षत्राणि लोके सप्तविंशतिर्व्यवह्रियन्त इति नक्षत्रशब्देनानगारगुणानां मूलोत्तरगुणरूपाणां सप्तविंशतिसङ्ख्यानां विराधनामाहुः । तत्रोत्तरगुणविराधनायां शुक्लशब्दवाच्यानामुद्घातिमानां मासिकचातुर्मासिकषाण्माप्तिकानां यथाक्रमं ग्रहणम् । मूलगुणविराधनायां तु कृष्णशब्दवाच्यान्यनुद्घातिमानि तानि गृह्यन्त इति जीतकल्पवृत्त्यभिप्रायः । व्यवहारवृत्तौ तु नक्षत्रशब्देनात्र मासः सूचितः, 'मासे' मासप्रमेयप्रायश्चित्तविषये 'भे' भवतः 'पीडा' व्रतपदककायपदकपीडाऽकल्पादिषट्कपीडा वा स्यादिति व्याख्यातम् । चूणिकृतोऽप्ययमेवाभिप्राय इति ध्येयम् । छेदादीनां च गूढपदैरित्थमाज्ञादानम्--"छिंदंतु तयं भाणं, गच्छंतु वयस्स साहुणो मूलं । अब्बावडा व गच्छे, अब्बीआ वाविं विहरंतु ॥१॥" 'तद् भाजनं' पूर्ववतपर्यायरूपं 'छिन्दन्तु' तन्मध्यात्कियन्तमपि पर्यायमपनयन्तु, स च च्छेदस्तपोभूमिमतिक्रान्तस्य पञ्चकादिदशकादिरूपतया तत्तदतिचारापेक्षया यावत्पर्यायः प्राप्यते तावत्क्रियते, ते चैवं छेदविभागा आज्ञाप्यन्ते---- छभागंगुल पणगा, दसराए तिभाग अद्ध पन्नरसे । वीसाइ तिभागूण, छब्भागणं तु पणवीसा ॥२|| मासचउमासळक्के, अंगुलचउरो तहेव छक्कं तु । एए छेयविभागा, नायव्वा अहक्कमेणं तु ॥३॥' इहागुलशब्देन माससङ्केतः, ततश्च पञ्चके दिनपञ्चके छेद्येऽङगुलषड्भागश्छेद्य इति व्यपदिशन्ति । भवन्ति हि त्रिंशदिनमानस्य मासस्य षड्भागे छेद्ये पञ्च, दशरात्रे छेद्ये त्रिभागः, पञ्चदशसु छेद्येष्वद्ध, विंशतौ छेद्यायां त्रिभागोनमङ्गुलं, पञ्चविंशतौ छेद्यायां षड्भागोनमगुलं छेद्यमिति । एकद्वित्रिचतुःपञ्चषडादिमासेषु च्छेद्येषु तत्सङ्ख्यान्यगुलानि च्छेद्यानीति निर्दिशन्ति । एते छेदविभागाः क्रमेण ज्ञातव्याः । सर्वपर्यायच्छेदेनाप्यशुद्धौ गच्छन्तु साधधो व्रतस्य मूलमष्टमप्रायश्चित्तभाजो भवन्तु, तस्याप्यतिक्रमे 'अव्यापृताः गच्छेयुः' अव्यापारास्तिष्ठन्तु, अनवस्थाप्या भवन्त्वित्यर्थः । तेनाप्यशुद्धौ ‘अद्वितीया वा विहरन्तु' एकाकिनः सन्तो दशमप्रायश्चित्तासेविनो भवन्त्विति दर्पिकासेवनाप्रायश्चित्तान्युक्तानि । कल्पिकासेवनायामप्ययतनामूला यामेतादृशं प्रायश्चित्तम् , यद् व्यवहारचूणिकृत--"एत्थ जं कप्पेणं तं अजयणाए. णायव्वं ।' यतनामूलायां तु तस्यां न किञ्चित्प्रायश्चित्तं शुद्धत्वात् , तथा चात्राह-- "बिइअस्स य कज्जस्स य, तहियं च उवीसई निसामेत्ता । आउत्त णमुकारा, भवंतु एवं भणिज्जाहि ॥शा" द्वितीयस्य कार्यस्य कल्पास्यस्य दर्शनादिपदगोचरामासेवनां शिष्येण कथितां श्रुत्वा गुरुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org