SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ પપ बोधप्रदीप सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते यावल्लीलावतीनां न हदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥९॥ १०. कैः कैर्नाऽमरमौलिचुम्बितपदैर्भुक्तास्सुराणां श्रियः को वाऽन्तर्नरकोदरे न कषितो दुःखैरनन्तै शम् । इत्थं तत्सुख-दुःखयोरपि गतः सर्वप्रकर्षं तथा प्यज्ञानावृतचेतसां न हृदयं व्यावर्तते कर्मतः ॥१०॥ ११. पाशोऽयं हरिणीदृशां भुजलतापाशः प्रकृष्टो गले ध्वन्तर्जीवितनाशिनो रतिपतेर्बाणाश्च बाणा इमे । को नैवं किल वेत्ति किन्तु निबिडीभूतः कुतोऽप्यग्रतो मुक्तिद्वारपिधानकर्मणि महामोहः कपाटायते ॥११॥ १२. उदितरुदिताक्रन्दं क्वापि क्वचित्कलगीतिकं क्वचिदुपचितक्रोधद्वन्द्वं क्वचिद्घनमैत्रिकम् । क्वचिदपि कृतक्रीडाभोगं क्वचिद् द्रविणार्जन व्यथितहदयं दृष्ट्वा लोके न कोऽत्र विरज्यते ॥१२॥ १३. जानन्त्येके प्रगुणितधियो धर्मकर्मादिशास्त्रं जानन्त्यन्ये निपुणमतयो वेदसिद्धान्ततत्त्वम् । जानन्त्यन्ये सकलमपरे तन्न जानन्ति केचिलीलालब्धत्रिभुवनजयो जीयते येन मृत्युः ॥१३॥ सा बुद्धिः प्रलयं प्रयातु कुलिशं तस्मिन् श्रुते पात्यतां वल्गन्तः प्रविशन्तु ते हुतभुजि ज्वालाकराले गुणाः । यैः सर्वैः शरदिन्दुकुन्दरुचिभिः प्राप्तैरपि प्राप्यते भूयोऽप्यत्र पुरन्ध्रिगर्भनरकक्रोडाधिवासव्यथा ॥१४॥ चलति गलितधैर्यः को न मोक्षान्तरालात् झगिति गवलनीला यत्पुरो वक्रिताङ्गी । इयमुपशमरूपं मार्गमाखण्डयन्ती चलति कुवलयाक्ष्याः सर्पिणी भूलतैव ॥१५॥ १४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy