________________
૯૬
१.
२.
३.
४.
६.
७.
८.
सूक्तसंग्रहः
तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव चाऽन्यः क्षणेन भवतीत्यतिचित्रमेतत् ॥१॥ यत्सेवन्तो नरपतिमहो मानवा मानशौण्डाः यत्सङ्ग्रामे गृह इव निजे निर्विशङ्का विशन्ति । यद्भाषन्ते परुषवचसां स्वामिनां दीनमग्रे हेतुस्तस्मिन् तरलनयना कामिनी काममेका ॥२॥ किमिह कपालकमण्डलुवल्कलसितरक्तपटजटापटा ( ट ? ) लै: । व्रतमिदमुज्ज्वलमनसां पुंसां प्रतिपत्तिनिर्वहणम् ॥३॥ यद्गायन्ति च वादयन्ति च नृणां नृत्यन्ति चाग्रे सदा नीचानामपि चित्रचाटुरचनास्तोत्राणि कुर्वन्ति वा । आरोहन्ति च रोहणाद्रिशिखरं क्रामन्ति चाम्भोनिधि मर्त्यास्तत्र निमित्तमुत्तमतमं मत्तेभकुम्भस्तनी ॥४॥ को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जनम् । यद्दंष्ट्रानखलाङ्गलप्रहरणः सिंहो वनं गाहते तस्मिन्नेव वने द्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यर्थिनाम् ॥५॥ यज्जीव्यते क्षणमपि प्रथितं मनुष्यैविज्ञानविक्रमयशोभिरहीयमानैः । तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥६॥ अत्युद्दामशिखैर्नखैर्विलिखनं संप( पा ) दयन्ती तनोः सीत्कारानपि मीलितेक्षणपुटानासूत्रयन्ती मुहुः । प्रागल्भ्यं करपीडनेन दधती संयोजितोरुक्लमा पामा प्रेमवतीव किं न कुरुते दुःखानुविद्धं सुखम् ॥७॥ विदग्धोऽपि सुवृत्तोऽपि पात्रभूतोऽपि यः पुमान् । भवेन्न स गुणग्राह्यो घटवत्कर्णदुर्बलः ॥८॥
Jain Education International
सुभाषितसंग्रहसमुच्चय
For Private & Personal Use Only
www.jainelibrary.org