________________
ग्रन्थत्रयी
आसाढपुण्णिमाए पज्जोसविंति एस उस्सग्गो । सेसकालं पज्जोसविताणं सव्वो अववाओ। अववादे वि सति सवीसइराइमासाउ अइक्कमेउं न वट्टइ । सवीसइराए मासे पुण्णे जइ वासखित्तं न लब्भइ तो रुक्खहिट्टे वि पज्जोसवेयव्वं । तं च पुण्णिमाए पंचमीए दसमीए एवमादिएस पव्वेसु पज्जोसवेयव्वं नो अपव्वेसु ।' इत्यादीनि च निशीथचूर्णिवचनानि ।
९०
अत्रोपदर्शितेषु पर्युषणाप्रकारेषु पर्युषणाकल्पकथनपूर्वकवर्षाकल्प सामाचारीव्यवस्थापनाविशिष्टायां अभिगृहीतानभिगृहीत- गृहिज्ञाताज्ञात-वर्षाकालावस्थानरूपायामेव पर्युषणायां पर्युषणाशब्दो बोध्यः । न तु वार्षिककृत्यविशिष्टायां सांवत्सरिकपर्वरूपायां पर्युषणायाम् । यतस्तत्र चूर्णौ वार्षिकपर्वानुष्ठानमध्यादेकस्याप्यनुष्ठानस्याश्रवणात् ।
एवमनङ्गीकारे च वार्षिकपर्वरूपायाः पर्युषणाया अप्यनैयत्यं स्यात् । तथा च सति शाश्वतिकसांवत्सरिकपर्वाष्टाह्निका देवादयः कुत्र कुर्युः । यदुक्तं श्रीजीवाभिगमसूत्रे - 'तत्थ णं बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा तिहिं चाउमासिएहिं पज्जोसवणाए अट्ठाहिआओ महामहिमाओ करिंति' । इति ।
किञ्चैवम्- 'आसाढपुण्णिमाए पज्जोसविंति एस उस्सग्गो । सेसकालं पज्जोसविताणं सव्वो अववाओ ||" इति वचनात् सांवत्सरिकपर्वरूपपर्युषणाया अपि उत्सर्गत आषाढपूर्णिमायामेव करणीयत्वापत्तिः स्यात् । तथा च प्रागुक्तचूर्णिवचनेषु वर्षावस्थानरूपपर्युषणाया औदयिकभाद्रशुक्लपञ्चमीदिनाद् व्यवहितपूर्वदिने कर्तव्यतोक्तावपि, अव्यवहितपूर्वदिनकर्त्तव्यताकवार्षिकपर्वरूपपर्युषणाविषये 'अंतरा' शब्दस्याऽ व्यवहितपूर्वार्थकत्वे न काऽपि बाधकतेति ।
वार्षिकपर्वरूपपर्युषणावाचकः पर्युषणाशब्दश्चैवम्
'परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे तं रर्याणि उवायणावित्तए । ' 'परं पज्जोसवणाओ अहिगरणं वइत्तए ।' इत्यादीनि श्रीकल्पवचनानि ।
एवम्-'पज्जोसवणाराइपडिक्कंताण अहिगरणे उप्पन्ने एसो विही । पज्जोसवणादिवसे अधिकरणे उप्पने तपो मूलं च भवति, न छेदो । जाव ठवणादिणुत्ति पज्जो - सवणादिवस इत्यर्थः । एवं तम्मि पज्जोसवणकालदिवसे तिमासगुरू भवति ।'
-
'सीसो पुच्छइ - इदाणि कहं अपव्वे पज्जोसविज्जइ । आयरिओ भण्णइकारणिया चउत्थी अज्जकालगायरिएहि पवत्तिया ।' इत्यादीनि वचनानि प्रागुपदर्शितानि । एवम्- 'महाविभूइए पविट्ठो कालगज्जो । पविट्ठेहि य भणियं-भद्दवयसुद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org