________________
૧૮
काय चतुष्टयवध-भयप्रक्षेपात् त्रयोदश । तत्र कायस्थाने पञ्चदशेति भङ्गानामेकविंशतिसहस्राणि । एवं कायचतुष्टयवधजुगुप्साक्षेपेऽपि । अथवा कायत्रयवध - [ भय ] जुगुप्साप्रक्षेपे [योदश । ] तत्र कायस्थापने ( स्थाने) विंशतिरिति प्राज्ञद् भङ्गा अष्टाविंशतिसहस्राणि । सर्वे त्रयोदशबन्धहेतुभङ्गा अष्टसप्ततिसहस्राणि चतुःशताधिकानि ।
त एव नव कायषट्कवधप्रक्षेपाच्चतुर्दश । तत्र कायस्थाने षटुकसंयोगीयो भङ्ग एक इति प्राग्वदङ्कगुणने भङ्गाचतुर्दशशतानि । अथवा कायपञ्चकवधभयप्रक्षेपाच्चतुर्दश । तत्र पञ्चकसंयोगे भङ्गषट्कमिति प्राग्वद् भङ्गानां चतुरशीतिशतानि । एवं कायपञ्चकवध - जुगुप्साप्रक्षेपेऽपि । यहा कायचतुष्टयवध भय - जुगुप्साप्रक्षेपाच्चतुर्दश । अत्र चतुष्कसंयोगे भङ्गाः पञ्चदशेति प्राग्वदङ्कताडने भङ्गा एकविंशतिसहस्राणि । सर्वमीलने चतुर्दशबन्धहेतुभङ्गा एकोनचत्वारिंशत्सहस्राणि द्वे च शते ।
तएव नव कायषट्कवध - भयप्रक्षेपात् पञ्चदश । अत्र षट्कसंयोगे भक्यात् प्राग्वदङ्काभ्यासे भङ्गाचतुर्दश शतानि । एवं कायषड्वधजुगुप्साप्रक्षेपेऽपि । यद्वा कायपञ्चकवध-भयजुगुप्साप्रक्षेपे पञ्चदश । अत्र पञ्चकसंयोगे षड्भङ्गया भङ्गानां चतुरशीतिशतानि । सर्वे पञ्चदशबन्धहेतुभङ्गा एकादशसहस्राणि शतद्वयं च ।
तेष्वेव नवसु कायषटुकवध-भय- जुगुप्साप्रक्षेपे षोडश । तत्र भङ्गाश्चतुर्दशशतानि । सर्वसङ्घययाऽविरतसम्यग्दृष्टौ भङ्गानां लक्षत्रयं द्विपञ्चाशत्सहस्राण्यष्टौ च शतानि । भाविता अविर - तसम्यग्दृष्टौ बन्धहेतुभङ्गाः ॥
अथ देशविरतेऽष्टादयश्चतुर्दशान्तास्ते ख्याप्यन्ते । तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org