________________
१७
दशशती । तया युगलद्विकगुणने जातान्येकविंशतिशतानि । तैः कपायचतुष्टयगुणने चतुरशीतिशतानि । एतावन्तो नववन्धहेतवः ( हेतुभङ्गाः ? )।
त एव नव कायद्वयवधप्रक्षेपे दश । पण्णां द्विकसंयोगे भङ्गाः पञ्चदशेति तान् कायस्थानेऽवस्थाप्योक्ताङ्कताडने एकविंशतिसहस्रास्तत्र भङ्गाः । अथवा भयप्रक्षेपे दश । तत्र भङ्गाः प्राग्वचतुरशीतिशतानि । एवं जुगुप्साप्रक्षेपेऽपि । सर्वसङ्कलने दशबन्धहेतुभङ्गाः सप्तत्रिंशत्सहस्राण्यष्टौ च शतानि ।
त एव नव कायत्रयवधप्रक्षेपादेकादश । षण्णां त्रिकसंयोगे च विशतिर्भङ्गा इत्यत्र भङ्गानामष्टाविंशतिसहस्राणि । अथवा कायद्वयवध-भयप्रक्षेपे एकादश । तत्र भङ्गा एकविंशतिसहस्राणि । एवं कायद्वयवध-जुगुप्साप्रक्षेपेऽपि । यद्वा भयजुगुप्साप्रक्षेपादेकादश । तत्र कायस्थाने पडेवेति भङ्गाश्चतुरशीतिशतानि । सर्वसङ्ख्ययैकादशबन्धहेतुभङ्गा अष्टसप्ततिसहस्राणि चत्वारि शतानि च ।
त एव नव कायचतुष्टयवधप्रक्षेपे द्वादश । तत्र चतुकसंयोगे भङ्गाः पञ्चदशेति तयुक्तप्रागुक्ताङ्कगुणने भङ्गानामेकविंशतिसहस्राणि । अथवा कायत्रयवध-भयप्रक्षेपे द्वादश । तत्र कायस्थाने विंशतिरिति प्राग्वद् भङ्गा अष्टाविंशतिसहस्राणि । एवं कायत्रयवध-जुगुप्साप्रक्षेपेऽपि । यद्वा कायद्वयवध-भय-जुगुप्सा प्रक्षेपाद् द्वादश । तत्र कायस्थाने पञ्चदशेति प्राग्वद् भङ्गानामेकविंशतिसहस्राणि । सर्वसङ्ख्यया द्वादशवन्धहेतुभङ्गा अष्टनवतिसहस्राणि ।
त एव नव कायपञ्चकवधप्रक्षेपात् त्रयोदश । पण्णां पञ्चकसंयोगे च पडिति भङ्गा इह चतुरशीतिशतानि । यद्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org