________________
Care पंडितश्रीजिनविजयविरचिता स्तुतिः
(द्रुतविलम्बितवृत्तम्) विशतु मे मनसि प्रभुसुव्रतः, कलिमलापगमाद् व्रतशोभिते । समितिगुप्तिजलोत्करसञ्चिते, विनयलब्धसदागमदीपके ।।
महोपाध्यायश्रीहेमहंसगणिविरचिता स्तुतिः मतिरन्यमते यति शती, सकलं केवलतेजसा मम । प्रणुनूषति सुव्रतं परं, सकलं केवल ते जसा मम ॥
पुण्यरत्नसूरिविरचिता स्तुतिः जैनेनोऽजनि नेनौजा, जननीजननाज्जिन । नांऽजनो न जनीनो, नोऽनिजाजीनजनाजिजित् ।।
श्रीधर्मघोषसूरिप्रणीता स्तुतिः विधत्ते सर्वदा यस्ते, ससुव्रत ! समुन्नतिम् । समास्वादयति स्वामिन्, स सुव्रत ! समुन्नतिम् ॥
श्रीचारित्ररत्नगणिप्रणीता स्तुतिः प्रणतस्त्वामहं देव ! सुमित्रभव! भक्तितः। तन्मा मोचय विश्वैक - सुमित्र ! भवभक्तितः ।।
श्रीगुणसौभाग्यमुनीश्वरप्रणीता स्तुति: श्रीसुव्रतेशांजनकायकान्ते ! रत्नत्रयीभव्यततिर्यकान्ते ! । प्रपद्यते तां वृणुतेऽयकान्ते ! शत्वं च सद्वाञ्छितदायकाऽन्ते ।।
श्रीसोमप्रभेशसूरिकृता स्तुतिः al यस्ते वचः सुव्रत ! सम्प्रपेदे, महामुने ! शासितमोहराज!।
कर्माष्टकं विष्टपनिर्मितोद्यन्महाऽमुनेशा !ऽऽसि तमोहरा ! ऽज ! ।। छय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org