________________
॥१॥
मध्याह्नाऽम्बररत्नबिम्बकलितं व्योमेव वक्षस्थलं,
श्रीवत्साऽङ्कितमध्यभागसुभगं बभ्राज यस्य प्रभोः । येनाऽश्वप्रतिबोधतः स्वकरुणाकीर्त्या मताऽलङ्कृता,
. देवेशः स ददातु मे जिनपतिः श्रीसुव्रतः सुव्रतम् जज्ञे भावितमानसा दृढरतिर्यत्राऽवतीर्णे यमः -
___ श्रीमत्सुव्रतमालया परमया पद्मासवित्री शमे । वृद्धिं तस्य मतं श्रितस्य भवतः कल्याणवल्ली समं,
श्रीमत्सुव्रत ! माऽऽलयाऽऽप रमया पद्मासवित्रीश ! मे ॥१॥ कूर्मोऽहं त्वमिव क्षमाभरधरो गुप्तेन्द्रियोऽप्यन्वह,
तिर्यग्दुर्गतिदुःखदुर्गतहृदस्मीशेति शं मे चिनु । देहि श्रेय इतीव सोङ्कनिभतो विज्ञप्तिकां यं मुदा,
कुर्यान्मातरि सुव्रतत्वकृदिति स्वाख्यः श्रिये सुव्रतः ॥१॥
श्रीमुनिसुंदरसूरिप्रणीता स्तुतिः
(मालिनीवृत्तम्) वशितवशिततिं यो वीरं हीर विजिग्ये, विषमविषमबाणं शौरिशर्वादिजैत्रम् । नयविनयविधिज्ञाः सुव्रते श्रीजिनेऽस्मिन्, भवत भवतमोऽर्के श्रेयसे भक्तिभाजः॥
श्रीकमलविजयरचिता स्तुतिः हरिकुलाम्बुधिपूर्णतमीमणिं, यमशठं कमठोऽकतया श्रितः। तमभिनम्य करोम्यमुधाऽधुना, स्वजनुरंजनरंजनकृद्रुचिम् ।। महोपाध्यायश्रीहेमहंसगणिविरचिता स्तुति:
(वसंततिलकावृत्तम्) विश्वार्चतामगमयः स्वयमंगजन्मी, भूयोज्वलामणिमंडलभासिनाभिः । श्रीसुव्रतस्य पितरौ महिताप्सरोभिर्भूयोज्वलधुमणिमंडलभासिनाभिः ।। छा
SEX
૭૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org